३१

01 यदि नानातन्त्रां श्यामाकेष्टिङ् ...{Loading}...

यदि नानातन्त्रां श्यामाकेष्टिं कुर्वीत श्यामाकानुद्धर्तवा इति सम्प्रेष्यति १

02 तस्याः सप्तदश सामिधेन्यः ...{Loading}...

तस्याः सप्तदश सामिधेन्यः २

03 सद्वन्तावाज्यभागौ विराजौ संयाज्ये ...{Loading}...

सद्वन्तावाज्यभागौ । विराजौ संयाज्ये ३

04 त्वमग्ने सप्रथा असि ...{Loading}...

त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञं वितन्वते । सोम यास्ते मयोभुव इति सद्वन्तौ । प्रेद्धो अग्न इमो अग्न इति विराजौ ४

05 वासो दक्षिणा दधिमन्थो ...{Loading}...

वासो दक्षिणा दधिमन्थो मधुमन्थो मधुपर्को मधुग्लुन्थो बभ्रुर्वा पिङ्गलः ५

06 सिद्धमिष्टिः सन्तिष्ठते ...{Loading}...

सिद्धमिष्टिः सन्तिष्ठते ६

07 हरितयवशाकशमीधान्यानान् नवानाम् फलानामनिष्टे ...{Loading}...

हरितयवशाकशमीधान्यानां नवानां फलानामनिष्टे ऽपि प्राश्ने याथाकामी ७

08 वेणुयवानामिष्टिमेके समामनन्ति ...{Loading}...

वेणुयवानामिष्टिमेके समामनन्ति ८

09 वेणुयवेषु पक्वेषु वेणुयवानुद्धर्तवा ...{Loading}...

वेणुयवेषु पक्वेषु वेणुयवानुद्धर्तवा इति सम्प्रेष्यति ९

10 तस्या एतदेव तन्त्रमेषा ...{Loading}...

तस्या एतदेव तन्त्रमेषा देवता १०

11 आग्नेयी मैत्रावरुणी प्राजापत्या ...{Loading}...

आग्नेयी मैत्रावरुणी प्राजापत्या वा ११

12 स प्रत्नवदिति द्वे ...{Loading}...

स प्रत्नवदिति द्वे धाय्ये चतस्र आज्यभागयोर्दश हविषां द्वे स्विष्टकृतः १२

13 व्रीहिभिरिष्ट्वा व्रीहिभिरेव यजेता ...{Loading}...

व्रीहिभिरिष्ट्वा व्रीहिभिरेव यजेता यवेभ्यो दर्शपूर्णमासावेवं यवैरा व्रीहिभ्योऽपि वा व्रीहिभिरेवोभत्रैते ह वै सूपचरतमा भवन्तीति बह्वृचब्राह्मणम् १३

14 वर्षासु श्यामाकैर्यजेत शरदि ...{Loading}...

वर्षासु श्यामाकैर्यजेत शरदि व्रीहिभिर्वसन्ते यवैर्यथर्तु वेणुयवैरिति विज्ञायत इति विज्ञायते १४

इत्येकत्रिंशी कण्डिका इत्यष्टमः पटलः इति षष्ठः प्रश्नः


  1. In rainy season. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. KB IV.12. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS IV.6.5.k. ↩︎ ↩︎

  4. TS IV.3.13.v. ↩︎ ↩︎

  5. The seventeenth and eighteenth verse. ↩︎