३०

01 सर्वहुतमपर्यावर्तयन्नृजुम् प्रतिष्ठितन् न ...{Loading}...

सर्वहुतमपर्यावर्तयन्नृजुं प्रतिष्ठितं न हस्तेन जुहुयात् १

02 यदि हुतः पर्यावर्तेत ...{Loading}...

यदि हुतः पर्यावर्तेत स्रुचोऽग्रेण कल्पयेत् २

03 न पाणिना ...{Loading}...

न पाणिना ३

04 वरे दत्ते कल्पयितव्यः ...{Loading}...

वरे दत्ते कल्पयितव्यः ४

05 आधायाभिघार्य पुनर्होतव्य इत्येके ...{Loading}...

आधायाभिघार्य पुनर्होतव्य इत्येके ५

06 अपि वा नैककपालङ् ...{Loading}...

अपि वा नैककपालं कुर्वीताज्येन द्यावापृथिवी यजेत ६

07 ये प्राचीनमेकाष्टकाया वत्सा ...{Loading}...

ये प्राचीनमेकाष्टकाया वत्सा जायन्ते तेषां प्रथमजं ददाति । वासः श्यामाके ७

08 भद्रान्नः श्रेयः समनैष्ट ...{Loading}...

भद्रान्नः श्रेयः समनैष्ट देवा इति यजमानभागं प्राश्नाति ८

09 सर्वेषाम् वा भक्षाणाम् ...{Loading}...

सर्वेषाम् वा भक्षाणां मन्त्रवतां प्रत्याम्नायः स्यात् ९

10 अग्निः प्रथमः प्राश्नातु ...{Loading}...

अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिरिति श्यामाकानाम् १०

11 सिद्धमिष्टिः सन्तिष्ठते ...{Loading}...

सिद्धमिष्टिः सन्तिष्ठते ११

12 अपि वामावास्यायाम् पौर्णमास्यां ...{Loading}...

अपि वामावास्यायां पौर्णमास्यां वाग्रयणेष्टिमन्वायातयेत् १२

13 अपि वामावास्याम् पौर्णमासीं ...{Loading}...

अपि वामावास्यां पौर्णमासीं वा नवैर्यजेत् १३

14 अपि वाग्निहोत्रीं व्रीहिस्तम्बं ...{Loading}...

अपि वाग्निहोत्रीं व्रीहिस्तम्बं यवस्तम्बं वा ग्रासयित्वा तस्याः पयसा सायम्प्रातर्जुहुयात् १४

15 अपि वा नवानां ...{Loading}...

अपि वा नवानां यवाग्वा सायम्प्रातर्जुहुयात् १५

16 अपि वा नवानाङ् ...{Loading}...

अपि वा नवानां गार्हपत्ये स्थालीपाकं श्रपयित्वाहवनीये जुहुयादाग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थाभ्यः १६

17 अपि वा नवानाञ् ...{Loading}...

अपि वा नवानां चतुःशरावमोदनं पक्त्वा चतुरो ब्राह्मणान्भोजयेत् १७

18 एवं यवैर्यजेत् ...{Loading}...

एवं यवैर्यजेत् १८

19 तत्राग्नेयश्यामाकौ न भवतः ...{Loading}...

तत्राग्नेयश्यामाकौ न भवतः १९

20 य ऊर्ध्वमेकाष्टकाया वत्सा ...{Loading}...

य ऊर्ध्वमेकाष्टकाया वत्सा जायन्ते तेषां प्रथमजं ददाति । एतमु त्यं मधुना संयुतं यवं सरस्वत्या अधि मनावचर्कृषुः । इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानव इति यजमानभागं प्राश्नाति । सर्वेषां वा भक्षाणां मन्त्रवतां प्रत्याम्नायः स्यात् २०

21 सिद्धमिष्टिः सन्तिष्ठते ...{Loading}...

सिद्धमिष्टिः सन्तिष्ठते २१

इति त्रिंशी कण्डिका


  1. Cf. KS 36.1; MS 1. 10.7; TB 1.6.3.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TB 1.6.3.7-8. ↩︎ ↩︎ ↩︎

  3. Cf. TB I. 6.3.7. ↩︎ ↩︎