२९

01 इदं श्रेयोऽवसानं यदागां ...{Loading}...

“इदं श्रेयोऽवसानं यदागां, स्योने मे द्यावापृथिवी अभूताम् ।
अनमीवाः प्रदिशः सन्तु मह्यम्, गोमद्धनवद् अश्ववत् पुरुषवद् धिरण्यवत् सुवीरवत् स्वाहे"त्यवसिते +++(प्रयाणे)+++ जुहोति +++(आहवनीये)+++१

02 नानिष्ट्वाग्रयणेनाहिताग्निर्नवस्याश्नीयात् ...{Loading}...

नानिष्ट्वाग्रयणेनाहिताग्निर्नवस्याश्नीयात् २

03 व्रीहीणां यवानां श्यामाकानामित्यग्रपाकस्य ...{Loading}...

व्रीहीणां यवानां श्यामाकानामित्यग्रपाकस्य यजेत ३

04 अमावास्यायाम् पौर्णमास्यां वा ...{Loading}...

अमावास्यायां पौर्णमास्यां वा ४

05 आमावास्यन् तन्त्रम् ...{Loading}...

आमावास्यं तन्त्रम् ५

06 सप्तदश सामिधेन्यः ...{Loading}...

सप्तदश सामिधेन्यः ६

07 निर्वपणकाल आग्नेयमष्टाकपालन् निर्वपति ...{Loading}...

निर्वपणकाल आग्नेयमष्टाकपालं निर्वपति पुराणानां व्रीहीणाम् ७

08 यथा दान्तेनादान्तं संयुनक्ति ...{Loading}...

यथा दान्तेनादान्तं संयुनक्ति तादृक्तदिति विज्ञायते ८

09 येन यज्ञेनेर्त्सेत्कुर्यादेव तत्राग्नेयमष्टाकपालमिति ...{Loading}...

येन यज्ञेनेर्त्सेत्कुर्यादेव तत्राग्नेयमष्टाकपालमिति विज्ञायते ९

10 नवानामितराण्यैन्द्राग्नन् द्वादशकपालमाग्नेन्द्रं वा ...{Loading}...

नवानामितराण्यैन्द्राग्नं द्वादशकपालमाग्नेन्द्रं वा वैश्वदेवं पयसि चरुं सौम्यं श्यामाकं चरुं द्यावापृथिव्यमेककपालम् १०

11 पुरस्तात्सौम्याद्द्यावापृथिव्यमेके समामनन्ति ...{Loading}...

पुरस्तात्सौम्याद्द्यावापृथिव्यमेके समामनन्ति ११

12 निरुप्तं हविरुपसन्नमप्रोक्षितम् भवति ...{Loading}...

निरुप्तं हविरुपसन्नमप्रोक्षितं भवति । अथ पञ्चाज्यानीर्जुहोति शतायुधाय शतवीर्यायेति १२

13 पुरस्ताद्वा स्विष्टकृतः ...{Loading}...

पुरस्ताद्वा स्विष्टकृतः १३

14 प्रोक्षादि कर्म प्रतिपद्यते ...{Loading}...

प्रोक्षादि कर्म प्रतिपद्यते १४

15 एकमुलूखलम् मुसलम् प्रतिबीजं ...{Loading}...

एकमुलूखलं मुसलं प्रतिबीजं वा १५

16 सर्वेषु हविष्कृदवहननमन्त्रः ...{Loading}...

सर्वेषु हविष्कृदवहननमन्त्रः १६

17 तुषोपवपनम् ...{Loading}...

तुषोपवपनम् १७

18 उत्तममोप्य वाचं विसृजते ...{Loading}...

उत्तममोप्य वाचं विसृजते १८

19 एषोऽन्येषान् नानाबीजानां समवेतानाङ् ...{Loading}...

एषोऽन्येषां नानाबीजानां समवेतानां कल्पः १९

20 अलङ्करणकाल आज्येनैककपालमभिपूरयति ...{Loading}...

अलङ्करणकाल आज्येनैककपालमभिपूरयति २०

21 आविःपृष्ठं वा कृत्वासादयति ...{Loading}...

आविःपृष्ठं वा कृत्वासादयति २१

22 प्रचरणकाल उद्धृत्य बर्हिषदङ् ...{Loading}...

प्रचरणकाल उद्धृत्य बर्हिषदं कृत्वा जुह्वामुपस्तीर्याधायाशयमन्वानीयाभिघार्योपांशु प्रचरति २२

इत्येकोनत्रिंशी कण्डिका


  1. Cp. AV XIX.14.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Thus there are two types of sacrificial materials: the first to Agni out of old grains and the second (see VI.29.10) out of new grains. ↩︎ ↩︎ ↩︎

  3. TS V.7.2.d-h. ↩︎