२८

01 सगृहः प्रयास्यन्वास्तोष्पतीयञ् जुहोति …{Loading}…

सगृहः प्रयास्यन्वास्तोष्पतीयं +++(होमं)+++ जुहोति १

02 अहुते यानेषु भण्डान्यारोपयन्ति …{Loading}…

अहुते यानेषु भण्डान्यारोपयन्ति २

03 न हीनमन्वाहरेयुः …{Loading}…

न +++(होमात् पूर्वम् आरोपणे यद्)+++ हीनम् अन्वाहरेयुः ३

04 यद्यनोवाह्यं स्यात्पूर्वन् तम् …{Loading}…

यद्यनो+++(=शकट)+++वाह्यं +++(धान्यादिकम्)+++ स्यात् पूर्वं तं प्रवहेयुर्, अप वोद्धरेयुः +++(नामान्यत्र स्थापयेयुर्वा पश्चान् नयनाय)+++ ४

05 यत्र संहिता रात्रीर्वसेत्पञ्च …{Loading}…

यत्र संहिता रात्रीर्वसेत्पञ्च सप्त नव दश वा, तत्+++(=तस्मात्)+++ प्रयास्युञ्जुहुयात् +++(वास्तोष्पतीयम्)+++ ५

06 नवरात्रवास्तौ वा पुनरेत्यैकामुषित्वा …{Loading}…

नवरात्रवास्तौ +++(सङ्कल्पितायाम्)+++ वा पुनरेत्यैकाम् +++(रात्रिम्)+++ उषित्वा प्रयास्यञ् जुहुयात् ६

07 दक्षिणो युक्तो भवति …{Loading}…

+++(शकटानाम्)+++ दक्षिणो युक्तो भवति सव्यो ऽयुक्तः +++(यदा तदा होमकालः)+++। अपि वाग्निष्ठस्य+++(=अरणियुक्ते शकटे)+++ दक्षिणो युक्तः सव्यस्य योक्त्रं परिहृतम् +++(यदा तदा होमकालः)+++। सर्वेषु वा युक्तेषु +++(होमकालः)+++७

08 वास्तोष्पत इत्यनुद्रुत्योत्तरया गार्हपत्ये …{Loading}…

वास्तोष्पत इत्यनुद्रुत्योत्तरया +++(अग्नीन् प्रणीयेति केचित्)+++ गार्हपत्ये हुत्वा
अवक्षाणानि+++(=उल्मूकानि)+++ संप्र-क्षाप्य+++(=पूर्णं दाहयित्वा)+++ पृथग् अरणीष्व् अग्नीन् समारोपयते ये धार्यन्ते ८

09 उपर्यग्नावरणी धारयञ्जपत्ययन् ते …{Loading}…

उपर्यग्नावरणी धारयञ् जपत्य् “अयं ते योनिरृत्विय” इति ९
+++(अ॒यं ते॒ योनि॑र्ऋ॒त्वियः॑ । यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॑ह । अथा॑ नो वर्धया र॒यिम् । )+++

10 अपि वा यजमान …{Loading}…

अपि वा यजमान एवात्मन्समारोपयते १०

11 या ते अग्ने …{Loading}…

“या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्यारो॑हा॒त्माऽऽत्मान॑म् । अच्छा॒ वसू॑नि कृ॒ण्वन्न॒स्मे नर्या॑ पु॒रूणि॑ ।
य॒ज्ञो भू॒त्वा य॒ज्ञमा सी॑द॒ स्वां योनि॑म् । जात॑वेदो॒ भुव॒ आ जाय॑मान॒स्सक्ष॑य॒ एहि॑” + इति हस्तं प्रताप्य मुखायाहरते ११

12 वास उपावरोह जातवेदः …{Loading}…

वास+++(य्)+++ “उपावरोह जातवेदः पुनस् त्वं, देवेभ्यो हव्यं वह नः प्रजानन् ।
आयुः प्रजां रयिमस्मासु धेह्य्, अजस्रो दीदिहि नो दुरोण” इति लौकिकेऽग्नावुपावरोहयति १२

13 अरण्योर्वोपावरोह्य मन्थेत् …{Loading}…

अरण्योर्वोपावरोह्य मन्थेत् १३

14 यदरण्योः समारूढः स्यान्निर्वर्तमान …{Loading}…

यदरण्योः समारूढः स्यान्, निर्वर्तमान एतं मन्त्रं जपेत् १४

उपा᳓वरोह जातवेदᳶ पु᳓नस् त्व᳓म् ॥41॥
देवे᳓भ्यो हव्यव्ँ᳓ वह नᳶ प्रजान᳓न् ।
आ᳓युᳶ प्रजाँ᳓ रयि᳓म् अस्मा᳓सु धेहि ।
अ᳓जस्रो दीदिहि नो दुरोणे᳓ ।

इत्यष्टाविंशी कण्डिका


  1. i.e. along with his wife, fires and possessions. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. To another village for being settled there. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See VI.28.8 ↩︎ ↩︎ ↩︎ ↩︎