२७

01 तदाहुर्नाग्निरुपस्थेयः कः श्रेयांसं ...{Loading}...

तदाहुर् नाग्निरुपस्थेयः- कः श्रेयांसं विषुप्तं बोधयिष्यतीति । +++(व्यक्तेषु त्वग्निषु तु)+++ “अभयंकराभयं मे कुरु+++(अकार्षीर् इति प्रत्यागमने)+++, स्वस्ति मेऽस्त्व्, अभयं मे अस्त्वि"त्येव ब्रूयात् - प्रवत्स्यदुपस्थानम् आगतोपस्थानं चाधिकृत्य वाजसनेयिनः समामनन्ति १ +++(वाङ्नियमः समिदाहरणम् प्रत्यागमने तु भवत्येव।)+++

02 नमो वोऽस्तु प्रवत्स्यामि ...{Loading}...

“नमो वो ऽस्तु प्रवत्स्यामि, नमो वोऽस्तु प्रावात्स्यमि"ति बृह्वृचाः २

03 गृहा मा बिभीत ...{Loading}...

“गृहा मा बिभीत, मा वेपिढ्वम्, ऊर्जं बिभ्रत एमसि ।
ऊर्जं बिभ्रद्वः, सुवनिः सुमेधा गृहानैमि, मनसा मोदमानः ।
येषाम् अध्येति प्रवसन् येषु सौमनसो बहुः ।
गृहान् उपह्वयामहे, ते नो जानन्तु जानतः ।
उपहूता भूरिधनाः सखायः स्वादुसंमुदः ।
अरिष्टाः सर्वपूरुषा गृहा नः सन्तु सर्वदा ।
उपहूता इह गाव उपहूता अजावयः ।
अथो अन्नस्य कीलाल उपहूतो गृहेषु न” इति गृहानभ्येति ३

04 क्षेमाय वः शान्त्यै ...{Loading}...

“क्षेमाय वः शान्त्यै प्रपद्ये, शिवं शग्मं शंयोः शंयोरि"ति प्रविशति ४

05 ऊर्जम् बिभ्रद्वः सुमनाः ...{Loading}...

“ऊर्जं बिभ्रद्वः सुमनाः सुमेधा गृहानागां मनसा मोदमानः ।
इरां वहन्तो घृतमुक्षमाणास् तेष्वहं सुमनाः संविशामी"ति प्रविश्य जपति । संविशन्वा ५

इति सप्तविंशी कण्डिका इति सप्तमः पटलः


  1. Cf. MS III.4.5; KS XXII.2. ↩︎ ↩︎ ↩︎ ↩︎

  2. In the available texts of the white YV this opinion is not found. Cp. however ŚB II.4.1.10; AB VII. 12. ↩︎ ↩︎ ↩︎

  3. Cp. AV. VII.60.4. ↩︎