01 तदाहुर्नाग्निरुपस्थेयः कः श्रेयांसं ...{Loading}...
तदाहुर् नाग्निरुपस्थेयः- कः श्रेयांसं विषुप्तं बोधयिष्यतीति । +++(व्यक्तेषु त्वग्निषु तु)+++ “अभयंकराभयं मे कुरु+++(अकार्षीर् इति प्रत्यागमने)+++, स्वस्ति मेऽस्त्व्, अभयं मे अस्त्वि"त्येव ब्रूयात् - प्रवत्स्यदुपस्थानम् आगतोपस्थानं चाधिकृत्य वाजसनेयिनः समामनन्ति १ +++(वाङ्नियमः समिदाहरणम् प्रत्यागमने तु भवत्येव।)+++
सर्वाष् टीकाः ...{Loading}...
थिते
- Now some say, “One should not stand near the fire praising it (after having returned form the journey). Who will awaken the sleeping superior?”.1 One should only say, “O safety creator! create safety for me; let there be bliss for me; let there be safety for me”. This is the opinion of the Vājasaneyians in connection with the standing near (the fires while praising them) by one who is about to stay away and the standing near (the fires) while praising them by one who has returned.2
मूलम् ...{Loading}...
तदाहुर्नाग्निरुपस्थेयः कः श्रेयांसं विषुप्तं बोधयिष्यतीति । अभयङ्कराभयं मे कुरु स्वस्ति मेऽस्त्वभयं मे अस्त्वित्येव ब्रूयात् । प्रवत्स्यदुपस्थानमागतोपस्थानं चाधिकृत्य वाजसनेयिनः समामनन्ति १
02 नमो वोऽस्तु प्रवत्स्यामि ...{Loading}...
“नमो वो ऽस्तु प्रवत्स्यामि, नमो वोऽस्तु प्रावात्स्यमि"ति बृह्वृचाः २
मूलम् ...{Loading}...
नमो वोऽस्तु प्रवत्स्यामि नमो वोऽस्तु प्रावात्स्यमिति बृह्वृचाः २
03 गृहा मा बिभीत ...{Loading}...
“गृहा मा बिभीत, मा वेपिढ्वम्, ऊर्जं बिभ्रत एमसि ।
ऊर्जं बिभ्रद्वः, सुवनिः सुमेधा गृहानैमि, मनसा मोदमानः ।
येषाम् अध्येति प्रवसन् येषु सौमनसो बहुः ।
गृहान् उपह्वयामहे, ते नो जानन्तु जानतः ।
उपहूता भूरिधनाः सखायः स्वादुसंमुदः ।
अरिष्टाः सर्वपूरुषा गृहा नः सन्तु सर्वदा ।
उपहूता इह गाव उपहूता अजावयः ।
अथो अन्नस्य कीलाल उपहूतो गृहेषु न” इति गृहानभ्येति ३
मूलम् ...{Loading}...
गृहा मा बिभीत मा वेपिढ्वमूर्जं बिभ्रत एमसि । ऊर्जं बिभ्रद्वः सुवनिः सुमेधा गृहानैमि मनसा मोद मानः । येषामध्येति प्रवसन्येषु सौमनसो बहुः । गृहानुपह्वयामहे ते नो जानन्तु जानतः । उपहूता भूरिधनाः सखायः स्वादुसम्मुदः । अरिष्टाः सर्वपूरुषा गृहा नः सन्तु सर्वदा । उपहूता इह गाव उपहूता अजावयः । अथो अन्नस्य कीलाल उपहूतो गृहेषु न इति गृहानभ्येति ३
04 क्षेमाय वः शान्त्यै ...{Loading}...
“क्षेमाय वः शान्त्यै प्रपद्ये, शिवं शग्मं शंयोः शंयोरि"ति प्रविशति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- With kṣemāya vaḥ śāntyai prapadye…1 he enters (in his house).
मूलम् ...{Loading}...
क्षेमाय वः शान्त्यै प्रपद्ये शिवं शग्मं शंयोः शंयोरिति प्रविशति ४
05 ऊर्जम् बिभ्रद्वः सुमनाः ...{Loading}...
“ऊर्जं बिभ्रद्वः सुमनाः सुमेधा गृहानागां मनसा मोदमानः ।
इरां वहन्तो घृतमुक्षमाणास् तेष्वहं सुमनाः संविशामी"ति प्रविश्य जपति । संविशन्वा ५
सर्वाष् टीकाः ...{Loading}...
थिते
- Either having entered into his house) or while sleeping he mutters ūrjaṁ bibhrad vaḥ sumanāḥ…
मूलम् ...{Loading}...
ऊर्जं बिभ्रद्वः सुमनाः सुमेधा गृहानागां मनसा मोदमानः । इरां वहन्तो घृतमुक्षमाणास्तेष्वहं सुमनाः संविशामीति प्रविश्य जपति । संविशन्वा ५
इति सप्तविंशी कण्डिका इति सप्तमः पटलः