२६

01 प्रजान् नो नर्याजूगुपस्तान् ...{Loading}...

“प्रजां नो नर्याजूगुपस्, तां नः पुनर्देही"ति गार्हपत्यमभिप्राण्य+++(=उपर्युच्छ्वस्य)+++
“अग्ने गृहपते सुगृहपतिरहं त्वया गृहपतिना भूयासं,
सुगृहपतिर् मया त्वं गृहपतिना भूयाः ।
शतं हिमाद्वायू राधांसीत् संपृञ्चानावसंपृञ्चानौ तन्व” इति गार्हपत्यम् १

02 अन्नन् नो बुÞयाजूगुपस्तन्नः ...{Loading}...

“अन्नं नो बुध्न्याजूगुपस्तन्नः पुनर्देही"त्यन्वाहार्यपचनमभिप्राण्यान्तराग्नी तिष्ठञ्जपति यथा प्रवत्स्यद् उपस्थाने २

03 अजूगुपतमभ्यराक्षीदिति मन्त्रं सन्नमति ...{Loading}...

“अजूगुपतम्, अभ्यराक्षीदि"ति मन्त्रं संनमति ३

04 मम नाम तव ...{Loading}...

“मम नाम तव च जातवेद” इति चतसृभिराहवनीयम् ४

05 प्रजाम् मे नर्याजूगुपस्ताम् ...{Loading}...

“प्रजां मे नर्याजूगुपस् तां मे पुनर्देही"ति गार्हपत्यम् अभ्यपान्य+++(=उपरि निश्वस्य)+++
“अन्नं मे बुध्न्याजूगुपस्, तन्मे पुनर् देही"त्यन्वाहार्यपचनमभ्यपान्य
“पशून्मे शंस्याजूगुपस् तान्मे पुनर् देही"त्याहवनीयमभ्यपान्य पूर्ववद् विराट्क्रमैर् उपतिष्ठते । अजूगुप इति मन्त्रं संनमति ५

06 अग्न्युपस्थानवदत्र समिधो दिशाञ् ...{Loading}...

अग्न्युपस्थानवदत्र समिधो +++(=“इन्धानास् त्वा शतं”)+++ दिशां चोपस्थानम् ६

07 नवमीञ् चेदतिप्रवसेन्मित्रो जनान्यातयति ...{Loading}...

नवमीं चेद् अतिप्रवसेन् “मित्रो जनान्यातयति प्रजानन्नि"ति मैत्र्योपस्थाय
“मनो ज्योतिर्जुषतामि"त्याहुतिं जुहुयात् ७

08 समिध आहुतिमुपस्थानमित्येवमनुपूर्वाण्येके समामनन्ति ...{Loading}...

समिध आहुतिमुपस्थानम् इत्येवमनुपूर्वाण्येके समामनन्ति ८

इति षड्विंशी कण्डिका


  1. Cp. TS I.5.6.q. or I.6.6.n. with addition from ŚB III.7.4.10-11; cp. MS I.4.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See V.18.2. ↩︎