२५

01 प्रवसन्काले विहारमभिमुखोऽग्न्युपस्थानञ् जपति ...{Loading}...

प्रवसन्काले विहारमभिमुखोऽग्न्युपस्थानं जपति १

02 इहैव सन्तत्र सतो ...{Loading}...

“इहैव सन् तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि ।
तिरो मा+++(ं)+++ सन्तमायुर्मा प्रहासीज्, ज्योतिषा वो वैश्वानरेणोपतिष्ठ” इति यद्यनुपस्थाय प्रवसेदेतयैवोपतिष्ठेत २

03 समिधः कृत्वा प्रत्येति ...{Loading}...

समिधः कृत्वा प्रत्येति ३

04 यथा ह वा ...{Loading}...

यथा ह वा इतं पितरं प्रोषिवांसं पुत्राः प्रत्याधावन्त्येवं ह वा एतमग्नयः प्रत्याधावन्ति । स शकलान् दारूणि वाहरन्नेति, यथैव तत्पुत्रेभ्य आहरन्नेति । तादृक्तदिति विज्ञायते ४

05 आरादग्निभ्यो वाचं यच्छति ...{Loading}...

आरादग्निभ्यो वाचं यच्छति ५

06 यद्येनं राजा पिताचार्यो ...{Loading}...

यद्येनं राजा पिताचार्यो वान्तरेणाग्नीन्स्याच् +++(अगार)+++छदिर्दर्शे +++(स्थाने)+++ नैनमाद्रियेत ६

07 विश्वदानीमाभरन्तोऽनातुरेण मनसा अग्ने ...{Loading}...

“विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषाम । नमस्ते अस्तु मीढुषे नमस्त उपसद्वने । अग्ने शुम्भस्व तन्वः सं मा रय्या सृजेत्यभ्यै"ति ७

08 अग्नीन्समाधेहीति ...{Loading}...

“अग्नीन्समाधेही"ति +++(प्रेष्यति)+++८

09 ज्वलत उपतिष्ठते ...{Loading}...

ज्वलत उपतिष्ठते ९

10 पशून्नः शंस्याजूगुपस्तान्नः पुनर्देहीत्याहवनीयमभिप्राण्याग्ने ...{Loading}...

“पशून्नः शंस्याजूगुपस्, तान्नः पुनर्देही"त्याहवनीयमभिप्राण्य+++(=उपर्युच्छ्वस्य)+++
“अग्ने सहस्राक्ष शतमूर्धञ्, छतं ते प्राणाः, सहस्रमपानाः ।
त्वं साहस्रस्य राय ईशिषे, सहस्रधारस्य पयसः ।
तस्य नो रास्व तस्य ते भक्षीय
तस्य ते वयं भूयिष्ठभाजो भूयास्मे"त्याहवनीयम् १०

इति पञ्चविंशी कण्डिका


  1. Cp. IV.16.18. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. TS IV.6.5.g. ↩︎