२४

01 प्रवत्स्यन्सम्प्रेष्यत्यग्नीन्समाधेहीति ...{Loading}...

प्रवत्स्यन् +++(=ग्रामान्तरे रात्रिं वत्स्यन्)+++ +++(साहायकं कञ्चित्)+++ संप्रेष्यत्य् “अग्नीन् समाधेही"ति १

02 ज्वलत उपतिष्ठते ...{Loading}...

ज्वलत उपतिष्ठते २

03 पशून्नः शंस्य पाहि ...{Loading}...

“पशून्नः शंस्य पाहि, तान्नो गोपायास्माकं पुनरागमादि"त्याहवनीयम् ।
“प्रजां नो नर्य पाहि, तां नो गोपायास्माकं पुनरागमादि"ति गार्हपत्यम् ।
“अन्नं नो बुध्न्य पाहि, तन्नो गोपायास्माकं पुनरागमादि"त्यन्वाहार्यपचनम् ३

04 अन्तराग्नी तिष्ठञ्जपतीमान्नो मित्रावरुणा ...{Loading}...

अन्तराग्नी तिष्ठञ् जपति +“इमान्नो मित्रावरुणा गृहान् गोपायतं युवम् । अविनष्टान् अविहृतान् पूषैनान् अभिरक्षत्वास्माकं पुनरागमादि"ति ४

05 पूर्ववद्विराट्क्रमैरुपस्थायाशित्वा प्रवसथमेष्यन्नाहाग्नीन्समाधेहीति ...{Loading}...

पूर्ववद् विराट्क्रमैर् उपस्थायाशित्वा, प्रवसथमेष्यन्न् आह - “अग्नीन्समाधेही"ति ५

06 ज्वलत उपतिष्ठते प्रजाम् ...{Loading}...

ज्वलत उपतिष्ठते - “प्रजां मे नर्य पाहि तां मे गोपायास्माकं पुनरागमादि"ति गार्हपत्यम् ।
“अन्नं मे बुध्न्य पाहि तन्मे गोपायास्माकं पुनरागमादि"त्यन्वाहार्यपचनम् ।
“पशून्मे शंस्य पाहि तान्मे गोपायास्माकं पुनरागमादि"त्याहवनीयम् ६

07 मम नाम प्रथमञ् ...{Loading}...

“मम नाम प्रथमं जातवेद” इति च ७

08 वाग्यतोऽभिप्रव्रजति मा प्रगाम ...{Loading}...

वाग्यतो ऽभिप्रव्रजति “मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मान्तःस्थुर्नो अरातयः । उदस्माँ उत्तरान्नयाग्ने घृतेनाहुत । रायस्पोषेण संसृज प्रजया च बहून्कृधी"ति ८

09 आरादग्निभ्यो वाचं विसृजते ...{Loading}...

आरादग्निभ्यो वाचं विसृजते ९

इति चतुर्विंशी कण्डिका


  1. i.e. when he will be staying away from his residence. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See VI.15.15-16. ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. MS I.5.14. ↩︎ ↩︎