01 अद्या नो देव ...{Loading}...
“अद्या नो देव सवितः प्रजावत्सावीः सौभगं । परा दुःष्वप्नियं सुव ।
विश्वानि देव सवितर्दुरितानि परा सुव । यद्भद्रं तन्म आ सुव ।
अनागसो अदितये वयं देवस्य सवितुः सवे । विश्वा वामानि धीमहि ।
स हि रत्नानि दाशुषे सुवाति सविता भगः । तं चित्रं भागमीमहे ।
वाममद्य सवितर्वाममु श्वो दिवेदिवे वाम्, अस्मभ्यं सावीः सौभगम् ।
वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम ।
दीक्षा तपो मनसो मातरिश्वा बृहस्पतिर्वाचो अस्याः स योनिः ।
वेदांसि विद्या मयि सन्तु चारवो ऽग्नीषोमा यशो अस्मासु धत्तम् ।”
“अग्निर्येन विराजति, सोमो येन विराजति, सूर्यो येन विराजति, विराड् येन विराजति, तेनाहं विश्वतस्परि विराज्यासम् इहैकवृदि"त्युपस्थायाग्नेस् +++(परिस्तरण)+++तृणान्य् अपचिनोति । तेजस्वी ह ब्रह्मवर्चसी भवतीति विज्ञायते १
सर्वाष् टीकाः ...{Loading}...
थिते
- Having thus stood near (the Āhavanīya while praising it) he separates some grass-blades from the fire (i.e. he takes some grass-blades scattered around the fire). He indeed becomes possessor of lustre and brahman splendor-Thus is known from a Brāhmaṇa-text.1
मूलम् ...{Loading}...
अद्या नो देव सवितः प्रजावत्सावीः सौभगं । परा दुःष्वप्नियं सुव । विश्वानि देव सवितर्दुरितानि परा सुव । यद्भद्रं तन्म आ सुव । अनागसो अदितये वयं देवस्य सवितुः सवे । विश्वा वामानि धीमहि । स हि रत्नानि दाशुषे सुवाति सविता भगः । तं चित्रं भागमीमहे । वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यं सावीः सौभगम् । वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम । दीक्षा तपो मनसो मातरिश्वा बृहस्पतिर्वाचो अस्याः स योनिः । वेदांसि विद्या मयि सन्तु चारवोऽग्नीषोमा यशो अस्मासु धत्तम् । अग्निर्येन विराजति सोमो येन विराजति सूर्यो येन विराजति विराड् येन विराजति तेनाहं विश्वतस्परि विराज्यासमिहैकवृदित्युपस्थायाग्नेस्तृणान्यपचिनोति । तेजस्वी ह ब्रह्मवर्चसी भवतीति विज्ञायते १
इति त्रयोविंशी कण्डिका इति षष्ठः पटलः
-
Not identified. ↩︎