२१

01 वर्चोऽसि वर्चो मयि ...{Loading}...

“वर्चोऽसि, वर्चो मयि धेह्य्, आयुकृद् आयुःपत्नी, स्वधा वो, गोप्त्र्यो मे स्थ, गोपायत, मा रक्षत, मात्मसदो मे स्थ ।
मा नः कश्चित् प्रघान्, मा प्रमेष्मह्युप प्रत्नमुप भूर्भुवः सुवरायुर्मे यच्छते"ति सर्वान् उपस्थाय
+++(उत्तराहुतेः परम् - यतस् तृणापनयनम् भवति)+++ उत्तरेणानुवाकेन अहवनीयं
“घर्मा जठरान्नादं माम् अद्यास्मिञ् जने जुरुतम्,
अन्नादो ऽहम् अद्यास्मिञ् जने भूयासम्, अनन्नादः स यो ऽस्मान्द्वेष्टि ।
कवी मातरिश्वाना पशुमन्तं मामद्यास्मिञ्जने कुरुतं
पशुमानहमद्यास्मिञ्जने भूयासम्, अपशुः स योऽस्मान्द्वेष्टि ।
यमाङ्गिरसा यशस्विनं मामद्यास्मिञ्जने कुरुतं
यशस्व्यहमद्यास्मिञ्जने भूयासमयशाः स योऽस्मान्द्वेष्टि ।
अग्ने यो नो अन्ति शपति, यश्च दूरे समानो अग्ने अरणो दुरस्युः ।
वैश्वानरेण सयुजा सजोषास् तं प्रत्यञ्चं संदह जातवेदः ।”
“अग्ने यत्ते ऽर्चिस्तेन तं प्रत्यर्च यो ऽस्मान्द्वेष्टि यं च वयं द्विष्मो
ऽग्ने यत्ते शोचिस्तेन तं प्रतिशोच योऽस्मान्द्वेष्टि यं च वयं द्विष्मो
ऽग्ने यत्ते तपस्तेन तं प्रतितप योऽस्मान्द्वेष्टि यं च वयं द्विष्मो
ऽग्ने यत्ते हरस्तेन तं प्रतिहर योऽस्मान्द्वेष्टि यं च वयं द्विष्मो
ऽग्ने यत्ते तेजस्तेन तं प्रतितितिग्धि योऽस्मान्द्वेष्टि यं च वयं द्विष्मः॥ १

इत्येकविंशी कण्डिका


  1. Cp.KS XXXVII.15; AV V.9.8. ↩︎

  2. MS, KS. ↩︎