२०

01 प्रातरवनेकेन प्रातरुपस्थेयः ...{Loading}...

+++(शाखान्तरोक्तेन हस्तयोः)+++ प्रातरवनेकेन +++(=प्रक्षालनेन)+++ प्रातरुपस्थेयः +++(इति ज्ञायते)+++ १

02 अधिश्रित उन्नीयमाने वा ...{Loading}...

अधिश्रित उन्नीयमाने वा “ममाग्ने वर्चो विहवेष्वस्त्वि"ति चतस्रो जपित्वा
“ऽऽपां पते योऽपां भागः - स त एष प्रतिषिक्ता अरातयः, प्रतिषिक्ता अरातयः, प्रतिषिक्ता अरातय” इति त्रिर्भूमौ प्रतिषिच्य
“कालाय वां जैत्रियाय वामौद्भेत्त्रियाय वामन्नाद्याय वामवनेनिजे सुकृताय वाम् ।
इदमहं दुरद्मन्यां निष्प्लावयामि, भ्रातृव्याणां सपत्नानामहं भूयासमुत्तमः ।
अपां मैत्रादिवोदकमि"ति हस्तौ प्रक्षाल्य
श्रियं धातर्मयि धेहि श्रियो माधिपतिं कुरु ।
“विशामीशानो मघवेन्द्रो मा यशसा नयदि"ति जपित्वा
“ऽहर्व्युष्टा देवजूता वीडु छपथजम्भनीः । आपो मलमिव प्राणिजन्नस्मत्सु शपथाँ अधी"त्याचम्य
“इन्द्रियावतीमद्याहं वाचमुद्यासं +++(मुखस्पर्शः)+++, दीर्घप्राणो ऽच्छिन्नो ऽदब्धो गोपाः +++(नासास्पर्शः)+++।
अजस्रं दैव्यं ज्योतिः सौपर्णं चक्षुः, सुश्रुतौ कर्णौ, देवश्रुतौ कर्णौ, केशा बर्हिः, शिखा प्रस्तरो, यथास्थानं कल्पयध्वं, शं हृदयायादो मा मा हासिष्टे"ति यथालिङ्गमङ्गानि संमृश्य २

इति विंशी कण्डिका


  1. Cf. MS I.5.7. ↩︎ ↩︎

  2. See VI.7.1-3. ↩︎

  3. Cp. AV II.7.1. ↩︎

  4. Cp. AV XVI.2.4-6. The sentence is incomplete. See the next Sūtra. ↩︎