१९

01 अग्नीनुपसमाधाय धर्मो मा ...{Loading}...

अग्नीन् उपसमाधाय +++(इन्धनैः)+++ - “धर्मो मा धर्मणः पातु, विधर्मो मा विधर्मणः पात्व्, आयुश्च प्रायुश्च चक्षुश्च विचक्षुश्च प्राङ्चावाङ्चोरुग उरुगस्य ते वाचा वयं सं भक्तेन गमेमही"त्युपस्थाय +++(आहवनीयम्)+++
“अग्न आयूंषि पवस” इत्याग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठते १

02 अग्ने गृहपत इति ...{Loading}...

“अग्ने गृहपत” इति च पुत्रस्य नाम गृह्णाति- “तामाशिषमाशासे तन्तवे” +इत्यजातस्य । अमुष्मा इति जातस्य २

03 यत्किञ्चाग्निहोत्री कामयेत तदग्नीन्याचेत ...{Loading}...

यत्किंचाग्निहोत्री कामयेत तदग्नीन् याचेत । उपैनं तन्नमतीति विज्ञायते ३

04 इत्युक्तम् ...{Loading}...

उपस्थेयोऽग्नी३र्नोपस्थेया३ इत्युक्तम् ४

05 नक्तमुपतिष्ठते न प्रातः ...{Loading}...

नक्तमुपतिष्ठते न प्रातः ५ +++(किञ्च प्रातरवनेको भवति, वर्तते च “त्रिरर्वाग्वसुना प्रातः” इत्यपि)+++

06 न प्रातरग्निमुप चनावरोहेन्न ...{Loading}...

न प्रातरग्निमुप चन+++(=अपि)+++ +अवरोहेन्, +++(तर्हि)+++ न प्रातर् आहिताग्निश् +++(अस्मीति)+++ चन मन्येतेति वाजसनेयकम् ६ +++(अहुते न भोक्तव्यमित्यादीनि व्रतानि चरेत्।)+++

07 भूर्भुवः सुवः सुप्रजाः ...{Loading}...

+++(सायम्)+++ “भूर्भुवः सुवः। सुप्रजाः प्रजया भूयासं, सुवीरो वीरैः, सुवर्चा वर्चसा, सुपोषः पोषैरि"त्येवोपतिष्ठेतेति वाजसनेयकम् । “भर्तुं वः शकेयं, श्रद्धा मे मा व्यागादि"ति वा ७

08 वात्सप्रेणैव सायम् प्रातरुपतिष्ठेतेत्येके ...{Loading}...

वात्सप्रेणैव+++(=)+++ सायं प्रातरुपतिष्ठेतेत्येके ८

09 गोषूक्तेनाश्वसूक्तेन वा ...{Loading}...

गोषूक्तेन+++(=आ गावो अग्मन्)+++ +आश्वसूक्तेन+++(=यदक्रन्द …, क्रमैरत्यक्रमत्)+++ वा ९

इत्येकोनविंशी कण्डिका इति पञ्चमः पटलः


  1. TS I.6.6.1-m. ↩︎ ↩︎ ↩︎

  2. Cf. MS I.5.11. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎