01 तत्सवितुर्वरेण्यं सोमानं स्वरणम् ...{Loading}...
“तत्सवितुर्वरेण्यं”, “सोमानं स्वरणं”, “मित्रस्य चर्षणीधृतः”, “प्र स मित्र”, “कदा चन स्तरीरसि”, “कदा चन प्रयुच्छसि”, “परि त्वाग्ने पुरं वयमि"त्युपस्थाय १
मूलम् ...{Loading}...
तत्सवितुर्वरेण्यं सोमानं स्वरणं मित्रस्य चर्षणीधृतः प्र स मित्र कदा चन स्तरीरसि कदा चन प्रयुच्छसि परि त्वाग्ने पुरं वयमित्युपस्थाय १
02 निमृदो ऽसि न्यहन् ...{Loading}...
“निमृदो ऽसि न्यहं तं मृद्यासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म” इति दक्षिणस्य पदः पार्ष्ण्या निमृद्गीयाद्+++(=निमृदति)+++ यदि पापीयसा स्पर्धेत ।
“प्रभूरसि प्राहं तमभिभूयासं यो ऽस्मान्द्वेष्टि यं च वयं द्विष्म” इति दक्षिणतः +++(दक्षिण)+++पदो निगृह्णीयाद् +++(=निपीडयेत्)+++ यदि सदृशेन ।
“अभिभूरस्यभ्यहं तं भूयासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म” इति प्रपदेन यदि श्रेयसा २
सर्वाष् टीकाः ...{Loading}...
थिते
- with nimr̥do’si nyahaṁ tam… he should press (the ground) with the heel of the right foot in case he vies with an inferior enemy; with prabhūrasi prāhaṁ tamabhibhūyāsam… if with an equal (enemy); and with abhibhūrasyabhyahaṁ tam bhūyāsam… if with a superior (enemy).1
मूलम् ...{Loading}...
निमृदो ऽसि न्यहं तं मृद्यासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति दक्षिणस्य पदः पार्ष्ण्या निमृद्गीयाद्यदि पापीयसा स्पर्धेत । प्रभूरसि प्राहं तमभिभूयासं यो ऽस्मान्द्वेष्टि यं च वयं द्विष्म इति दक्षिणतः पदो निगृह्णीयाद्यदि सदृशेन । अभिभूरस्यभ्यहं तं भूयासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति प्रपदेन यदि श्रेयसा २
03 पूषा मा पशुपाः ...{Loading}...
“पूषा मा पशुपाः पातु, पूषा मा पथिपाः पातु, पूषा माधिपाः पातु, पूषा माधिपतिः पात्वि"ति लोकानुपस्थाय
“प्राची दिग् अग्निर् देवता, ऽग्निं स ऋच्छतु यो मैतस्यै दिशो ऽभिदासति ।” “दक्षिणा दिगिन्द्रो देवतेन्द्रं स ऋच्छतु यो
मैतस्यै दिशोऽभिदासति ।”, “प्रतीची दिक् सोमो देवता सोमं स ऋच्छतु यो मैतस्यै दिशोऽभिदासति ।”, “उदीची दिङ्मित्रावरुणौ देवता मित्रावरुणौ स ऋच्छतु यो मैतस्यै दिशोऽभिदासति ।”, “ऊर्ध्वा दिग्बृहस्पतिर्देवता बृहस्पतिं स ऋच्छतु यो मैतस्यै दिशोऽभिदासति ।” “इयं दिगदितिर्देवतादितिं स ऋच्छतु यो मैतस्यै दिशोऽभिदासती"ति यथालिङ्गं दिश उपस्थाय ३
मूलम् ...{Loading}...
पूषा मा पशुपाः पातु पूषा मा पथिपाः पातु पूषा माधिपाः पातु पूषा माधिपतिः पात्विति लोकानुपस्थाय प्राची दिगग्निर्देवताग्निं स ऋच्छतु यो मैतस्यै दिशोऽभिदासति । दक्षिणा दिगिन्द्रो देवतेन्द्रं स ऋच्छतु यो मैतस्यै दिशोऽभिदासति । प्रतीची दिक् सोमो देवता सोमं स ऋच्छतु यो मैतस्यै दिशोऽभिदासति । उदीची दिङ्मित्रावरुणौ देवता मित्रावरुणौ स ऋच्छतु यो मैतस्यै दिशोऽभिदासति । ऊर्ध्वा दिग्बृहस्पतिर्देवता बृहस्पतिं स ऋच्छतु यो मैतस्यै दिशोऽभिदासति । इयं दिगदितिर्देवतादितिं स ऋच्छतु यो मैतस्यै दिशोऽभिदासतीति यथालिङ्गं दिश उपस्थाय ३
इत्यष्टादशी कण्डिका