१८

01 तत्सवितुर्वरेण्यं सोमानं स्वरणम् ...{Loading}...

“तत्सवितुर्वरेण्यं”, “सोमानं स्वरणं”, “मित्रस्य चर्षणीधृतः”, “प्र स मित्र”, “कदा चन स्तरीरसि”, “कदा चन प्रयुच्छसि”, “परि त्वाग्ने पुरं वयमि"त्युपस्थाय १

02 निमृदो ऽसि न्यहन् ...{Loading}...

“निमृदो ऽसि न्यहं तं मृद्यासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म” इति दक्षिणस्य पदः पार्ष्ण्या निमृद्गीयाद्+++(=निमृदति)+++ यदि पापीयसा स्पर्धेत ।
“प्रभूरसि प्राहं तमभिभूयासं यो ऽस्मान्द्वेष्टि यं च वयं द्विष्म” इति दक्षिणतः +++(दक्षिण)+++पदो निगृह्णीयाद् +++(=निपीडयेत्)+++ यदि सदृशेन ।
“अभिभूरस्यभ्यहं तं भूयासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म” इति प्रपदेन यदि श्रेयसा २

03 पूषा मा पशुपाः ...{Loading}...

“पूषा मा पशुपाः पातु, पूषा मा पथिपाः पातु, पूषा माधिपाः पातु, पूषा माधिपतिः पात्वि"ति लोकानुपस्थाय
“प्राची दिग् अग्निर् देवता, ऽग्निं स ऋच्छतु यो मैतस्यै दिशो ऽभिदासति ।” “दक्षिणा दिगिन्द्रो देवतेन्द्रं स ऋच्छतु यो मैतस्यै दिशोऽभिदासति ।”, “प्रतीची दिक् सोमो देवता सोमं स ऋच्छतु यो मैतस्यै दिशोऽभिदासति ।”, “उदीची दिङ्मित्रावरुणौ देवता मित्रावरुणौ स ऋच्छतु यो मैतस्यै दिशोऽभिदासति ।”, “ऊर्ध्वा दिग्बृहस्पतिर्देवता बृहस्पतिं स ऋच्छतु यो मैतस्यै दिशोऽभिदासति ।” “इयं दिगदितिर्देवतादितिं स ऋच्छतु यो मैतस्यै दिशोऽभिदासती"ति यथालिङ्गं दिश उपस्थाय ३

इत्यष्टादशी कण्डिका


  1. Cf. MS I.5.11; KS VII.9. ↩︎ ↩︎ ↩︎

  2. Cp. KS VII.9. ↩︎ ↩︎

  3. TS III.4.11.15. ↩︎ ↩︎

  4. TS III.4.11.17. ↩︎

  5. TS I.5.6.n.1. ↩︎

  6. TS 1.4.22.2. ↩︎

  7. TS I.5.6.15. ↩︎