१७

01 सम्पश्यामि प्रजा अहमिति ...{Loading}...

“संपश्यामि प्रजा अहमि"ति गृहान्प्रेक्षते १

02 अम्भः स्थाम्भो वो ...{Loading}...

“अम्भः स्थ, +अम्भो वो भक्षीये"ति गोष्ठमुपतिष्ठते २

03 रेवती रमध्वमित्यन्तराग्नी तिष्ठञ्जपति ...{Loading}...

“रेवती रमध्वमि"त्यन्तराग्नी तिष्ठञ्जपति ३

04 संहितासि विश्वरूपीरिति वत्समभिमृशति ...{Loading}...

“संहितासि विश्वरूपीरि"ति वत्समभिमृशति ४

05 संहितासि विश्वरूपेति वत्साम् ...{Loading}...

“संहितासि विश्वरूपे"ति वत्साम् ५

06 भुवनमसि सहस्रपोषम् पुषेति ...{Loading}...

“भुवनमसि सहस्रपोषं पुषेति” वा वत्सम् ६

07 उप त्वाग्ने दिवेदिव ...{Loading}...

“उप त्वाग्ने दिवेदिव” इति तिसृभिर् गायत्रीभिर् गार्हपत्यम् उपतिष्ठते
“ऽग्ने त्वं नो अन्तम” इति चतसृभिश्च द्विपदाभिः ७

08 स नो बोधि ...{Loading}...

“स नो बोधि श्रुधी हवमुरुष्या णो अघायतः समस्मादि"त्येषा चतुर्थी +++(द्विपदा)+++ भवति ८

09 ऊर्जा वः पश्याम्यूर्जा ...{Loading}...

“ऊर्जा वः पश्याम्य्, ऊर्जा मा पश्यते"ति गृहान्प्रेक्षते पशून्वा ९

10 महि त्रीणामवोऽस्तु द्युक्षम् ...{Loading}...

“महि त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधष वरुणस्य ।” +++(विवरणम् अत्र)+++, “नहि तेषाममा चन नाध्वसु वारणेष्वा । ईशे रिपुरघशंसः ।”, “ते हि पुत्रासो अदितेश् छर्दिर् यच्छन्त्यजस्रम् । वि दाशुषे वार्याणी"ति प्राजापत्येन तृचेनोपतिष्ठते +++(आहवनीयम्)+++१०

11 यङ् कामयेत स्वस्ति ...{Loading}...

यं कामयेत स्वस्ति पुनरागच्छेदिति तमेताभिर्+++(=पूर्वोक्त-त्र्य्-ऋचेन)+++ अन्वीक्षेत । स्वस्त्येव पुनरागच्छतीत्ययज्ञसंयुक्तः +++(नाम न यजमानस्यैव)+++ कल्पः ११

12 मा नः शंसो ...{Loading}...

“मा नः शंसो अररुषो धूर्तिः प्रणङ् मर्त्यस्य । रक्षा णो ब्रह्मणस्पते ।” “यो रेवान्यो अमीवहा वसुवित् पुष्टिवर्धनः । स नः सिषक्तु यस्तुरः ।” “परि ते दूडभो रथोऽस्माँ अश्नोतु विश्वतः । येन रक्षसि दाशुषः” १२

इति सप्तदशी कण्डिका


  1. TS I.5.6.a. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.5.6.c. ↩︎ ↩︎

  3. TS I.5.8.1. ↩︎