१६

01 अग्न्युपस्थानं व्याख्यास्यामः ...{Loading}...

अग्न्युपस्थानं व्याख्यास्यामः १

02 उपतिष्ठत इति चोद्यमान ...{Loading}...

उपतिष्ठत इति चोद्यमान आहवनीयमेवोपतिष्ठेत । वचनादन्यम् २

03 उत्तरामहुतिमुपोत्थाय कवातिर्यङ्ङिवोपतिष्ठेत ...{Loading}...

उत्तरामहुतिमुपोत्थाय कवा+++(=ईषत्)+++तिर्यङ्ङिवोपतिष्ठेत ३

04 उपप्रयन्तो अध्वरमिति षड्भिः ...{Loading}...

“उपप्रयन्तो अध्वरमि"ति षड्भिः ४

05 अग्नीषोमाविमं सु म ...{Loading}...

“अग्नीषोमाविमं सु म” इति सप्तम्या पूर्वपक्षे । “ऐन्द्राग्न्या” सप्तम्यापरपक्षे ५

06 दधिक्राव्णो अकारिषमित्युभयत्राष्टम्या ...{Loading}...

“दधिक्राव्णो अकारिषमि"त्युभयत्राष्टम्या ६

07 ममाग्ने वचो विहवेष्वस्त्विति ...{Loading}...

“ममाग्ने वचो विहवेष्वस्त्वि"ति चतस्रः पुरस्ताद् अग्नीषोमीयायाः पूर्वपक्षे । तथैन्द्राग्न्या अपरपक्षे ७

08 अग्न आयूंषि पवस ...{Loading}...

“अग्न आयूंषि पवस” इति षड्भिः संवत्सरेसंवत्सरे सदा वा ८

09 पवमानहवींषि वा संवत्सरेसंवत्सरे ...{Loading}...

“पवमानहवींषि”+++(=अन्वाहार्यदक्षिणानि, शतमानदक्षिणानि वा)+++ वा संवत्सरेसंवत्सरे निर्वपेदेतासां स्थाने ९

10 आयुर्दा अग्न इति ...{Loading}...

+++(उभयत्र)+++ “आयुर्दा अग्न” इति सिद्धमा चित्रावसोः+++(=मन्त्रान्तनिर्देशः)+++ १०

11 त्रिश्चित्रावसुना सायमुपतिष्ठते त्रिरर्वाग्वसुना ...{Loading}...

+++(आ॒यु॒र्दा अ॑ग्ने॒ऽस्यायु॑र्मे दे॒हि। व॒र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे देहि। तनू॒पा अ॑ग्नेऽसि त॒नुवं॑ मे पा॒ह्यग्ने॒ यन् मे॑ त॒नुवा॑ ऊ॒नं तन्म॒ आ पृ॑ण )+++
त्रिश्चित्रावसुना+++(=चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शी॒य)+++ सायमुपतिष्ठते । त्रिरर्वाग्वसुना प्रातर् -“अर्वाग्वसो स्व॒स्ति ते॑ पा॒रम॑शी॒य” ११

12 इन्धानास्त्वा शतं हिमा ...{Loading}...

“इन्धानास् त्वा शतं हिमा” इत्युपस्थाय
+++(एतत् समिधुपस्थानमिति)+++ “इन्धानास् त्वा शतं हिमाः । अग्नेः समिदस्यभिशस्त्या मा पाहि। सोमस्य समिदसि परस्पा म एधि। यमस्य समिदसि मृत्योर्मा पाही"ति चतस्रः समिध एकैकस्मिन्नाधाय
“सं त्वमग्ने सूर्यस्य वर्चसागथा” इत्यनुवाकशेषेणोपस्थाय
“वयं सोम व्रते तव मनस्तनूषु बिभ्रतः प्रजावन्तो अशीमही"ति मुखं विमृष्टे १२

इति षोडशी कण्डिका


  1. The Agnyupasthāna is to be done by the sacrificer. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. e.g. VI.17.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. They are to be used in the Agnyupasthāna. ↩︎ ↩︎