१५

01 पयसा पशुकामस्य जुहुयाद्दध्नेन्द्रियकामस्य …{Loading}…

पयसा पशुकामस्य जुहुयाद्, दध्नेन्द्रियकामस्य, यवाग्वा ग्रामकामस्य, ओदनेनान्नाद्यकामस्य, तण्डुलैरोजस्कामस्य - बलकामस्येत्येके, मांसेन यशस्कामस्य, सोमेन ब्रह्मवर्चसकामस्य, आज्येन तेजस्कामस्य १

02 प्रतिषेकं यवागूं श्रपयति …{Loading}…

प्रतिषेकं+++(=उपरिष्टाद् अब्बिन्दुक्षेपं कृत्वा)+++ यवागूं श्रपयति २

03 शृतां यजुषा प्रतिषिञ्चति …{Loading}…

+++(मध्यम-)+++शृतां +++(=पक्वां)+++ यजुषा +++(“हरस् ते मा विनैषमि"ति)+++ प्रतिषिञ्चति ३

04 एवम् मांसम् …{Loading}…

एवं मांसम् ४

05 नाज्यम् प्रतिषिञ्चति हरस्ते …{Loading}…

नाज्यं प्रतिषिञ्चति, “हरस् ते मा विनैषमि"ति द्वे दर्भाग्रे प्रत्यस्यत्येकं वा ५

06 न दध्यधिश्रयति शृतं …{Loading}…

न दध्यधिश्रयति +++(उदूढेष्वङ्गारेषु)+++ - शृतं+++(=पक्तं)+++ हि तन्, न प्रतिषिञ्चति - प्रतिषिक्तं हि तदातञ्चनेनेति विज्ञायते ६

07 एवन् तण्डुलानोदनं सोमञ् …{Loading}…

एवं तण्डुलानोदनं सोमं च ७ +++(अङ्गाराणाम् अपोहनम् प्रत्यूहनं च न भवतः।)+++

08 आज्येन तण्डुलैरोदनेन सोमेन …{Loading}…

आज्येन तण्डुलैरोदनेन सोमेन वा +++(न तु पयसा)+++ जुहुयाद् यस्याप्रतिषेक्यं स्यात् +++(अप्रतिषेक्यं स्यात् तेजस्कामस्य … इति सूत्रान्तरम्।)+++ ८

09 आज्येन तेजस्कामः संवत्सरञ् …{Loading}…

आज्येन तेजस्कामः संवत्सरं जुहुयाद् द्वादशाहं वा ९

10 न राजन्यस्य जुहुयात् …{Loading}…

न राजन्यस्य जुहुयात् +++(किञ्च धार्यन्ते गतश्रियो ऽग्नयः।)+++१०

11 होमकाले गृहेभ्यो ब्राह्मणायान्नम् …{Loading}…

होमकाले गृहेभ्यो ब्राह्मणायान्नं प्रहिणुयात्तेनो हैवास्य हुतं भवति ११

12 नित्यमग्न्युपस्थानं वाचयितव्यः …{Loading}…

नित्यमग्न्युपस्थानं वाचयितव्यः १२

13 यो वा सोमयाजी …{Loading}…

यो वा +++(राजन्यः)+++ सोमयाजी सत्यवादी तस्य जुहुयात् +++(इति विकल्पः)+++ १३

14 अहरहर्यजमानः स्वयमग्निहोत्रञ् जुहुयात् …{Loading}…

अहरहर्यजमानः स्वयमग्निहोत्रं जुहुयात् १४

15 पर्वणि वा …{Loading}…

पर्वणि वा १५

16 ब्रह्मचारी वा जुहुयाद्ब्रह्मणा …{Loading}…

ब्रह्मचारी वा जुहुयाद् - ब्रह्मणा हि स परिक्रीतो भवति । क्षीरहोता +++(अग्निहोत्रशेषक्षीरभृत्, धनेन भृतो वा)+++ वा जुहुयाद् -धनेन हि स परिक्रीतो भवतीति बह्वृचब्राह्मणम् १६

इति पञ्चदशी कण्डिका इति चतुर्थः पटलः


  1. Cf. TB II.1.5.5-6; KS VI.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Not known. ↩︎