१४

01 पूर्ववदग्नीन्परिषिञ्चति न धाराम् ...{Loading}...

पूर्ववदग्नीन्परिषिञ्चति । न धाराम् १

02 अपिप्रेरग्ने स्वान् तन्वमयाड् ...{Loading}...

“अपि प्रेरग्ने स्वां तन्वमयाड् द्यावापृथिवी ऊर्जमस्मासु धेही"त्यग्निहोत्रस्थाल्यां तृणमङ्क्त्वा +++(ऽऽहवनीये)+++ ऽनुप्रहरति २

03 सा ह्यग्निहोत्रस्य संस्थितिः ...{Loading}...

सा ह्यग्निहोत्रस्य संस्थितिः+++(=समाप्तिः)+++ ३

04 न बर्हिरनुप्रहरेत् असंस्थितो ...{Loading}...

+++(अथवा)+++ न बर्हिरनुप्रहरेत् । असंस्थितो +++(=असमाप्यो)+++ वा एष यज्ञो यदग्निर्होत्रमित्युक्तम् ४

05 अग्निहोत्रस्थालीम् प्रक्षाल्याक्षितमक्षित्यै जुहोमि ...{Loading}...

अग्निहोत्रस्थालीं प्रक्षाल्य “अक्षितमक्षित्यै जुहोमि स्वाहे"ति +उन्नयनदेशे निनयति। अन्तर्वेदि वा ५

06 वृष्टिरसि वृश्च मे ...{Loading}...

“वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागामप्सु श्रद्धे"त्यप आचम्य
यजमानो ऽन्तर्वेदि +++(हस्तम् प्रसार्य)+++ मार्जयते “ऽन्नादाः स्थान्नादो भूयासं, यशः स्थ यशस्वी भूयासं, श्रद्धा स्थ श्रद्धिषीये"ति ६

07 आपो ह श्लेष्म ...{Loading}...

“आपो ह श्लेष्म प्रथमं संबभूव, येन धृतो वरुणो येन मित्रः । येनेन्द्रं देवा अभ्यषिञ्चन्त राज्याय, तेनाहं मामभिषिञ्चामि वर्चस” इति शिरस्यप आनयते ७

08 द्वयोः पयसा पशुकामस्य ...{Loading}...

द्वयोः +++(गवोः)+++ पयसा पशुकामस्य जुहुयात् ८

09 अग्निहोत्रस्थाल्या पूर्वान् दोग्धि ...{Loading}...

अग्निहोत्रस्थाल्या पूर्वां दोग्धि । दोहनेनोत्तराम् ९

10 अधिश्रित्य पूर्वमुत्तरमानयति ...{Loading}...

अधिश्रित्य पूर्वमुत्तरमानयति १०

11 यस्य रुद्रः पशूञ्छमायेतैतयैवावृता ...{Loading}...

यस्य रुद्रः पशूञ् छमायेत+++(=हन्यात्)+++ +एतयैवावृता+++(=रीत्या)+++ द्वयोः पयसा सायंप्रातर्जुहुयात् ११

12 तच्चेदतिहन्यात्सजूर्जातवेदो दिव आ ...{Loading}...

तच्चेद् अतिहन्यात् “सजूर् जातवेदो दिव आ पृथिव्या अस्य हविषो घृतस्य वीहि स्वाहे"ति सायंप्रातराज्येन जुहुयात् +++(प्रधानाहुतिम्)+++ १२

13 अनारमत्यग्ने दुःशीर्ततनो जुषस्व ...{Loading}...

+++(ततो मन्त्रविकृतिः क्वचित् - “आग्नेयं हविः प्रजननं” → “आग्नेयं जातवेदसं हविः प्रजननं”, “अग्निः प्रजां बहुलाम्” → “अग्निर् जातवेदाः प्रजां बहुलाम्”)+++
+++(रुद्र)+++ अनारमत्य् “अग्ने दुःशीततनो जुषस्व स्वाहे"ति द्वादशाहमाज्येन हुत्वा, तत ऊर्ध्वं न सूर्क्षेत्+++(=आद्रियेत, नैष्फल्यं पापभारवशाद् इत्यङ्गीकृत्य)+++ १३

इति चतुर्दशी कण्डिका