१३

01 अग्ने गृहपते परिषद्य ...{Loading}...

“अग्ने गृहपते परिषद्य जुषस्व स्वाहे"ति स्रुवेण गार्हपत्ये जुहोत्येकां द्वे तिस्रश्चतस्रो वा १

02 अग्नये गृहपतये रयिपतये ...{Loading}...

+++(तत्स्थाने)+++ “अग्नये गृहपतये, रयिपतये, पुष्टिपतये, कामाय, अन्नाद्याय स्वाहे"त्येतामेके समामनन्ति २

03 समभ्युच्चयवदेके ...{Loading}...

समभ्युच्चयवदेके +++(= उभाभ्यामपि मन्त्राभ्याम् होमद्वयम्)+++३

04 अग्नेऽदाभ्य परिषद्य जुषस्व ...{Loading}...

“अग्नेऽदाभ्य परिषद्य जुषस्व स्वाहे"ति स्रुवेणान्वाहार्यपचने जुहोत्येकां द्वे तिस्रश्चतस्रो वा ४

05 अन्नपते ऽन्नस्य नो ...{Loading}...

“अन्नपते ऽन्नस्य नो देही"ति द्वितीयाम् +++(पूर्वेण त्वितराः)+++५

06 अप्राश्य वापरयोर्जुहुयात् ...{Loading}...

अप्राश्य वापरयोर्जुहुयात् ६

07 आहवनीये होमो नापरयोः ...{Loading}...

+++(कल्पान्तरम् -)+++ आहवनीये होमो नापरयोः ७

08 यदाहवनीये हुत्वापरयोर्जुहुयाद्यथा स्वर्गाल्लोकात्प्रत्यवरोहेत्तादृक्तदिति ...{Loading}...

यदाहवनीये हुत्वापरयोर्जुहुयाद्, यथा स्वर्गाल् लोकात् प्रत्यवरोहेत् तादृक् तदिति विज्ञायते ८

09 सर्वे वा एते ...{Loading}...

सर्वे वा एते होमार्था आधीयन्ते । चतस्रो गार्हपत्ये जुहोति, चतस्रो ऽन्वाहार्यपचने, द्वे आहवनीये । दश संपद्यन्ते । “दशाक्षरा विराड्विराजा यज्ञः संमित” इति बह्वृच-ब्राह्मणं भवति ९
+++(अतस् बह्वृचममते ऽपरयोर् आहुतयो नियताः)+++

10 दीदिहि दीदिदासि दीदायेत्येषोऽग्न्युपसमिन्धन ...{Loading}...

“दीदिहि दीदिदासि दीदाये"त्येषोऽग्न्युपसमिन्धन आम्नातः १०

11 दीदिहि दीदिदासि दीदाय ...{Loading}...

“दीदिहि, दीदिदासि, दीदाय, दीद्यासं, दीद्यस्वे"ति वा प्रतिमन्त्रम् +++(एकैकस्याग्नेर् उपसमिन्धनम्)+++११

12 यथाहितास्तेनानुपूर्व्येणाहवनीयाद्वा प्रक्रम्य ...{Loading}...

यथाहितास् तेनानुपूर्व्येण, आहवनीयाद् वा प्रक्रम्य १२

13 अन्तर्वेद्यपो निनीय ...{Loading}...

अन्तर्वेद्यपो निनीय १३

इति त्रयोदशी कण्डिका


  1. MS I.8.5; KS VI.8. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. i.e. he may first offer the libations in these two fires and then consume the milk. For consuming milk see VI.11.4ff. ↩︎