१२

01 सौर्यं हविरिति प्रातर्मन्त्रं ...{Loading}...

सौर्यं हविरिति प्रातर्मन्त्रं संनमति १

02 द्विः स्रुचन् निर्लिह्याद्भिः ...{Loading}...

द्विः स्रुचं निर्लिह्याद्भिः पूरयित्वा
“उछिष्टभाजो जिन्वे"ति पराचीनं +++(नाम, अनावृत्य)+++ निनीय
आचम्याग्रेणाहवनीयं दर्भैर् अग्निहोत्रहवणीं प्रक्षालयति २

03 न मांसधौतस्य देवा ...{Loading}...

न +++(हस्त)+++मांसधौतस्य देवा भुञ्जत इति विज्ञायते ३

04 अद्भिः स्रुचम् पूरयित्वा ...{Loading}...

अद्भिः स्रुचं पूरयित्वा “सर्पेभ्यस्त्वा सर्पाञ्जिन्वे"ति प्रतिदिशं व्युत्सिच्य +++(=ऊर्ध्वं सिक्त्वा)+++
“सर्पान्पिपीलिका जिन्व, सर्पेतरजनाञ्जिन्व, सर्पदेवजनाञ्जिन्वे"ति तिस्रः स्रुच उत्सिच्य,
चतुर्थीं पूरयित्वा “पृथिव्याममृतं जुहोमि स्वाहे"त्यपरेणाहवनीयं निनीय
शेषं +++(मुख्य)+++पत्न्या+++(य्)+++ अञ्जलौ “गृहेभ्यस्त्वा गृहाञ्जिन्वे"ति ४

05 यदि पत्नी नानुष्याद्देवानाम् ...{Loading}...

यदि पत्नी नानुष्याद्, “देवानां पत्नीभ्यो ऽमृतं जुहोमि स्वाहे"ति पत्न्यायतने निनयेत् ५

06 अपरं स्रुच्यानीय विप्रुषां ...{Loading}...

+++(उदकम्)+++ अपरं स्रुच्यानीय “विप्रुषां शान्तिरसी"त्युन्नयनदेशे निनीय
अहवनीये स्रुचं प्रताप्य हस्तोऽवधेयो, हस्तो वा प्रताप्य स्रुच्यवधेयः ६

07 तयोदगुद्दिशति सप्तर्षिभ्यस्त्वा सप्तर्षीञ्जिन्वेति ...{Loading}...

तयोदगुद्दिशति “सप्तर्षिभ्यस्त्वा सप्तर्षीञ्जिन्वे"ति ७

इति द्वादशी कण्डिका इति तृतीयः पटलः


  1. not known. ↩︎ ↩︎ ↩︎

  2. Cf. MS I.8.5. ↩︎