११

01 वर्षीयसीमुत्तरामाहुतिं हुत्वा भूयो ...{Loading}...

+++(पूर्वाहुतेरपेक्षया)+++ वर्षीयसीम् उत्तरामाहुतिं हुत्वा, भूयो भक्षाय +अवशिनष्टि १

02 यङ् कामयेत पापीयान्स्यादिति ...{Loading}...

यं कामयेत पापीयान्स्यादिति, भूयस्तस्य पूर्वं हुत्वोत्तरं कनीयो जुहुयात् २ +++(अत एवं माभूत्।)+++

03 हुत्वा स्रुचमुद्गृह्य रुद्र ...{Loading}...

हुत्वा, स्रुचमुद्गृह्य,
“रुद्र मृडानार्भव मृड धूर्त नमस्ते अस्तु पशुपते त्रायस्वैनमि"ति त्रिः स्रुचा ऽग्निम् उदञ्चम् +++(यथा तथा ज्वालाम् स्रुचञ्च)+++ अति वल्गयति+++(=कम्पयति)+++ ३

04 पूर्ववल्लेपमवमृज्य प्राचीनावीती स्वधा ...{Loading}...

पूर्ववल् लेपम् अवमृज्य,
प्राचीनावीती “स्वधा पितृभ्यः पितॄञ् जिन्वे"ति दक्षिणेन +++(अन्तर्)+++वेदिं भूम्यां लेपं निमृज्य
“प्रजां मे यच्छे"ति स्रुचं सादयित्वा
“वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागामि"ति हुत्वाप उपस्पृश्य
अन्तर्वेदि स्रुक् अथाङ्गुल्यापादाय
“पूषासी"ति लेपं प्राश्नात्यशब्दं कुर्वन्न् अतिहाय दतः+++(=दन्तान्)+++ ४

05 अप आचम्यैवम् पुनः ...{Loading}...

अप आचम्यैवं पुनः प्राश्याचम्य
बर्हिषोपयम्य +++(स्रुचो ऽधस्तात्)+++
+उदङ्ङावृत्य उत्सृप्य
“गर्भेभ्यस्त्वा गर्भान् प्रीणीह्य्, आग्नेयं हविः प्रजननं मे अस्तु दशवीरं सर्वगणं स्वस्तये । आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धेहि । रायस्पोषमिषमूर्जमस्मासु दीधरत् स्वाहे"त्य् उदग्दण्डया प्राग्दण्डया वा स्रुचाचामति ५

इत्येकादशी कण्डिका


  1. Than the first libation. ↩︎ ↩︎ ↩︎

  2. Cf. TB II.1.4.1.; MS I.8.5. ↩︎ ↩︎

  3. Cf. VI.11.4-5. ↩︎ ↩︎ ↩︎

  4. KS VI.5;VII.14. ↩︎