१०

01 समिधमाधाय प्राण्यापान्य निमील्य ...{Loading}...

समिधमाधाय प्राण्य +अपान्य निमील्य वीक्ष्य हुत्वा ध्यायेद्यत्कामः स्यात् १

02 हुत्वा महदभिवीक्षते ...{Loading}...

हुत्वा महद् +++(=आकाशम्)+++ अभिवीक्षते २

03 आदीप्तायाञ् जुहोति श्यावायां ...{Loading}...

+++(नित्यकल्पः-)+++ आदीप्तायां जुहोति, श्यावा+++(मा)+++यां वा, यदा वा समतीतार्चिर् लेलायतीव+++(=दीप्यतीव)+++ ।
+++(काम्यकल्पः-)+++ धूपायत्यां ग्रामकामस्य, ज्वलत्यां ब्रह्मवर्चसकामस्य, अङ्गारेषु तेजस्कामस्य ३

04 द्व्यङ्गुले मूलात्समिधमभि जुहोति ...{Loading}...

द्व्यङ्गुले मूलात्समिधमभि जुहोति ४

05 अभिक्रामं सायञ् जुहोत्यवक्रामम् ...{Loading}...

+++(आहवनीयम् प्रति)+++ अभिक्रामं सायं जुहोत्य्, अवक्रामं प्रातः ५

06 उभयत्र वाभिक्रामम् ...{Loading}...

उभयत्र वाभिक्रामम् ६

07 भूर्भुवः सुवरिति होष्यञ्जपति ...{Loading}...

भूर्भुवः सुवरिति होष्यञ्जपति ७

08 अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायमग्निहोत्रञ् ...{Loading}...

“अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहे"ति सायमग्निहोत्रं जुहोति । “सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहे"ति प्रातः ८

09 संसृष्टहोमं वाग्निर्ज्योतिर्ज्योतिः सूर्यः ...{Loading}...

संसृष्ट+++(मन्त्र)+++होमं वा"ग्निर्ज्योतिर्ज्योतिः सूर्यः स्वाहे"ति सायम् । “सूर्यो ज्योतिर्ज्योतिरग्निः स्वाहे"ति प्रातः ९

10 इषे त्वेति स्रुङ्मुखादवाचीनं ...{Loading}...

“इषे त्वे"ति स्रुङ्मुखादवाचीनं +++(=पश्चिमापवर्गम्)+++ सायं लेपमवमार्ष्ट्य्, “ऊर्जे त्वे"ति +ऊर्ध्वं प्रातः १०

11 ओषधीभ्यस्त्वौषधीर्जिन्वेति बर्हिषि लेपन् ...{Loading}...

“ओषधीभ्यस् त्वौषधीर् जिन्वे"ति बर्हिषि लेपं निमृज्य
“वर्चो मे यच्छे"ति स्रुचं सादयित्वा
“अग्ने गृहपते मा मा संताप्सीर्, आत्मन्न् अमृतम् अधिषि, प्रजा ज्योतिर्, अदब्धेन त्वा चक्षुषा प्रतीक्ष” इति गार्हपत्यं प्रतीक्ष्य
“भूर्भुवः सुवरि"त्युत्तराम् आहुतिं +++(अग्नेः)+++ पूर्वार्धे समिधि जुहोति तूष्णीं वा ११

12 न समिदभिहोतवा इत्येके ...{Loading}...

न समिदभिहोतव्या +इत्येके १२

इदि दशमी कण्डिका


  1. Cf. TB II.1.3.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. KB III.2. ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. KS VI.5. ↩︎ ↩︎ ↩︎

  4. Cf. TB II.1.2.12; cp MS I.8.7; KS VI.6. ↩︎