01 यस्याग्नावुद्ध्रियमाणे हूयते वसुषु ...{Loading}...
+++(गार्हपत्याद्)+++ यस्याग्नाव् उद्ध्रियमाणे हूयते, वसुषु हुतं भवति +++(यदि हूयेत)+++ ।
+++(आहवनीये)+++ निहितो धूपायञ्च्छेते+++(=धूमायन्न् आस्ते)+++ रुद्रेषु ।
प्रथमम् इध्मम् अर्चिरालभत आदित्येषु ।
सर्व एव सर्वश इध्म आदीप्तो भवति विश्वेषु देवेषु ।
नितरामर्चिरुपावैति लोहनीकेव+++(=लोहितमिव)+++ भवतीन्द्रे हुतं भवति ।
अङ्गारा भवन्ति तेभ्यो ऽङ्गारेभ्यो ऽर्चिरुदेति प्रजापतावेव ।
शरो+++(=भस्म)+++ ऽङ्गारा अध्यूहन्ते, ततो नीलोपकाशो ऽर्चिरुदेति - ब्रह्मणि हुतं भवति १
सर्वाष् टीकाः ...{Loading}...
थिते
- (The sacrificer) in the case of whom (the Agnihotra libation) is offered while fire is being taken up, it becomes offered in Vasus; if it is kept (on the Āhavanīya) it remains smoking it becomes offered in Rudras; (if it is offered) while the flame is touching the fuel for the first time, …in Ādityas (if it is offered when) the whole fuel becomes completely ablaze it becomes offered in Viśve Devas; (if it is offered when) the flame goes down and becomes red as it were it bcomes offered in Indra; if (it is offered when) there are burning coals, and from them flame comes up, it becomes offered in Prajāpati only; (if it is offered when) ash gathers on burning coals and from them blackish flame comes up, it becomes offered in … Brahman.1
मूलम् ...{Loading}...
यस्याग्नावुद्ध्रियमाणे हूयते वसुषु हुतं भवति । निहितो धूपायच्छेते रुद्रेषु । प्रथममिध्ममर्चिरालभत आदित्येषु । सर्व एव सर्वश इध्म आदीप्तो भवति विश्वेषु देवेषु । नितरामर्चिरुपावैति लोहनीकेव भवतीन्द्रे हुतं भवति । अङ्गारा भवन्ति तेभ्योऽङ्गारेभ्योऽर्चिरुदेति प्रजापतावेव । शरोऽङ्गारा अध्यूहन्ते ततो नीलोपकाशोऽर्चिरुदेति ब्रह्मणि हुतं भवति १
02 यदङ्गारेषु व्यवशान्तेषु लेलायद्वीव ...{Loading}...
यदङ्गारेषु व्यव-शान्तेषु लेलायद्+++(=दीप्यमानम्)+++ वि+इव भाति, तद्देवानामास्यं तस्मात् तथा होतव्यं यथास्ये ऽपिदधात्य्, एवं तदिति विज्ञायते २
सर्वाष् टीकाः ...{Loading}...
थिते
- After the burning coals have calmed down when a flickering glow appears, that is the mouth of the gods; therefore offering should be made in such a manner that he puts the offering in the mouth-it is like this-thus is known (from a Brāhmaṇa-text).[^ 1]
मूलम् ...{Loading}...
यदङ्गारेषु व्यवशान्तेषु लेलायद्वीव भाति तद्देवानामास्यं तस्मात्तथा होतव्यं यथास्ये ऽपिदधात्येवं तदिति विज्ञायते २
03 विद्युदसि विद्य मे ...{Loading}...
“विद्युदसि विद्य मे पाप्मानम् ऋतात् सत्यम् उपैमी"ति होष्यन्नप उपस्पृश्य
पालाशीं समिधमादधात्येकां द्वे तिस्रो वा ३
मूलम् ...{Loading}...
विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमीति होष्यन्नप उपस्पृश्य पालाशीं समिधमादधात्येकां द्वे तिस्रो वा ३
04 एषा ते अग्ने ...{Loading}...
“एषा ते अग्ने समिदि"ति ।
“हिरण्ययं त्वा वंशं स्वर्गस्य लोकस्य् संक्रमणं दधामी"ति द्वितीयाम् ।
“रजतां त्वा हरितगर्भाम् अग्निज्योतिषम् अक्षितिं कामदुघां स्वर्ग्यां स्वर्गाय लोकाय रात्रिम् इष्टकाम् उपदधे। तया देवतया ऽऽङ्गिरस्वद् ध्रुवा सीदे"ति सायं तृतीयाम् ।
“हरिणीं त्वा रजतगर्भां सूर्यज्योतिषम् अक्षितिं कामदुघां स्वर्ग्यां स्वर्गाय लोकाय +अहर् इष्टकाम् उपदध” इति प्रातः ४
मूलम् ...{Loading}...
एषा ते अग्ने समिदिति । हिरण्ययं त्वा वंशं स्वर्गस्य लोकस्य् सङ्क्रमणं दधामीति द्वितीयाम् । रजतां त्वा हरितगर्भामग्निज्योतिषमक्षितिं कामदुघां स्वर्ग्यां स्वर्गाय लोकाय रात्रिमिष्टकामुपदधे तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति सायं तृतीयाम् । हरिणीं त्वा रजतगर्भां सूर्यज्योतिषमक्षितिं कामदुघां स्वर्ग्यां स्वर्गाय लोकायाहरिष्टकामुपदध इति प्रातः ४
इति नवमी कण्डिका