०९

01 यस्याग्नावुद्ध्रियमाणे हूयते वसुषु ...{Loading}...

+++(गार्हपत्याद्)+++ यस्याग्नाव् उद्ध्रियमाणे हूयते, वसुषु हुतं भवति +++(यदि हूयेत)+++ ।
+++(आहवनीये)+++ निहितो धूपायञ्च्छेते+++(=धूमायन्न् आस्ते)+++ रुद्रेषु ।
प्रथमम् इध्मम् अर्चिरालभत आदित्येषु ।
सर्व एव सर्वश इध्म आदीप्तो भवति विश्वेषु देवेषु ।
नितरामर्चिरुपावैति लोहनीकेव+++(=लोहितमिव)+++ भवतीन्द्रे हुतं भवति ।
अङ्गारा भवन्ति तेभ्यो ऽङ्गारेभ्यो ऽर्चिरुदेति प्रजापतावेव ।
शरो+++(=भस्म)+++ ऽङ्गारा अध्यूहन्ते, ततो नीलोपकाशो ऽर्चिरुदेति - ब्रह्मणि हुतं भवति १

02 यदङ्गारेषु व्यवशान्तेषु लेलायद्वीव ...{Loading}...

यदङ्गारेषु व्यव-शान्तेषु लेलायद्+++(=दीप्यमानम्)+++ वि+इव भाति, तद्देवानामास्यं तस्मात् तथा होतव्यं यथास्ये ऽपिदधात्य्, एवं तदिति विज्ञायते २

03 विद्युदसि विद्य मे ...{Loading}...

“विद्युदसि विद्य मे पाप्मानम् ऋतात् सत्यम् उपैमी"ति होष्यन्नप उपस्पृश्य
पालाशीं समिधमादधात्येकां द्वे तिस्रो वा ३

04 एषा ते अग्ने ...{Loading}...

“एषा ते अग्ने समिदि"ति ।
“हिरण्ययं त्वा वंशं स्वर्गस्य लोकस्य् संक्रमणं दधामी"ति द्वितीयाम् ।
“रजतां त्वा हरितगर्भाम् अग्निज्योतिषम् अक्षितिं कामदुघां स्वर्ग्यां स्वर्गाय लोकाय रात्रिम् इष्टकाम् उपदधे। तया देवतया ऽऽङ्गिरस्वद् ध्रुवा सीदे"ति सायं तृतीयाम् ।
“हरिणीं त्वा रजतगर्भां सूर्यज्योतिषम् अक्षितिं कामदुघां स्वर्ग्यां स्वर्गाय लोकाय +अहर् इष्टकाम् उपदध” इति प्रातः ४

इति नवमी कण्डिका


  1. Cf TB II.1.10; cp. ŚB II.3.2.9-13. ↩︎ ↩︎ ↩︎

  2. TB II.1.3.9. rejects the second fuel-stick. MS I.8.4 first allows two fuel-sticks but then rejects this practice. ↩︎ ↩︎