01 यस्याग्नावुद्ध्रियमाणे हूयते वसुषु …{Loading}…
+++(गार्हपत्याद्)+++ यस्याग्नाव् उद्ध्रियमाणे हूयते, वसुषु हुतं भवति +++(यदि हूयेत)+++ ।
+++(आहवनीये)+++ निहितो धूपायञ्च्छेते+++(=धूमायन्न् आस्ते)+++ रुद्रेषु ।
प्रथमम् इध्मम् अर्चिरालभत आदित्येषु ।
सर्व एव सर्वश इध्म आदीप्तो भवति विश्वेषु देवेषु ।
नितरामर्चिरुपावैति लोहनीकेव+++(=लोहितमिव)+++ भवतीन्द्रे हुतं भवति ।
अङ्गारा भवन्ति तेभ्यो ऽङ्गारेभ्यो ऽर्चिरुदेति प्रजापतावेव ।
शरो+++(=भस्म)+++ ऽङ्गारा अध्यूहन्ते, ततो नीलोपकाशो ऽर्चिरुदेति - ब्रह्मणि हुतं भवति १
थिते
- (The sacrificer) in the case of whom (the Agnihotra libation) is offered while fire is being taken up, it becomes offered in Vasus; if it is kept (on the Āhavanīya) it remains smoking it becomes offered in Rudras; (if it is offered) while the flame is touching the fuel for the first time, …in Ādityas (if it is offered when) the whole fuel becomes completely ablaze it becomes offered in Viśve Devas; (if it is offered when) the flame goes down and becomes red as it were it bcomes offered in Indra; if (it is offered when) there are burning coals, and from them flame comes up, it becomes offered in Prajāpati only; (if it is offered when) ash gathers on burning coals and from them blackish flame comes up, it becomes offered in … Brahman.1
यस्याग्नावुद्ध्रियमाणे हूयते वसुषु हुतं भवति । निहितो धूपायच्छेते रुद्रेषु । प्रथममिध्ममर्चिरालभत आदित्येषु । सर्व एव सर्वश इध्म आदीप्तो भवति विश्वेषु देवेषु । नितरामर्चिरुपावैति लोहनीकेव भवतीन्द्रे हुतं भवति । अङ्गारा भवन्ति तेभ्योऽङ्गारेभ्योऽर्चिरुदेति प्रजापतावेव । शरोऽङ्गारा अध्यूहन्ते ततो नीलोपकाशोऽर्चिरुदेति ब्रह्मणि हुतं भवति १
02 यदङ्गारेषु व्यवशान्तेषु लेलायद्वीव …{Loading}…
यदङ्गारेषु व्यव-शान्तेषु लेलायद्+++(=दीप्यमानम्)+++ वि+इव भाति, तद्देवानामास्यं तस्मात् तथा होतव्यं यथास्ये ऽपिदधात्य्, एवं तदिति विज्ञायते २
थिते
- After the burning coals have calmed down when a flickering glow appears, that is the mouth of the gods; therefore offering should be made in such a manner that he puts the offering in the mouth-it is like this-thus is known (from a Brāhmaṇa-text).[^ 1]
यदङ्गारेषु व्यवशान्तेषु लेलायद्वीव भाति तद्देवानामास्यं तस्मात्तथा होतव्यं यथास्ये ऽपिदधात्येवं तदिति विज्ञायते २
03 विद्युदसि विद्य मे …{Loading}…
विश्वास-प्रस्तुतिः
वि᳓द्युद् असि,
वि᳓द्य मे पाप्मा᳓नम्,
ऋता᳓त् सत्य᳓म् उ᳓पैमि॥
म᳓यि श्रद्धा᳓।
मूलम्
विद्यु॑द् असि॒,
विद्य॑ मे पा॒प्मान॑म्,
ऋ॒तात् स॒त्यम् उपै॑मि॥
मयि॑ श्र॒द्धा।
इति होष्यन्न्
अप उपस्पृश्य
पालाशीं समिधमादधात्येकां द्वे तिस्रो वा ३
विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमीति होष्यन्नप उपस्पृश्य पालाशीं समिधमादधात्येकां द्वे तिस्रो वा ३
04 एषा ते अग्ने …{Loading}…
“एषा ते अग्ने समिदि"ति ।
“हिरण्ययं त्वा वंशं स्वर्गस्य लोकस्य् संक्रमणं दधामी"ति द्वितीयाम् ।
“रजतां त्वा हरितगर्भाम् अग्निज्योतिषम् अक्षितिं कामदुघां स्वर्ग्यां स्वर्गाय लोकाय रात्रिम् इष्टकाम् उपदधे। तया देवतया ऽऽङ्गिरस्वद् ध्रुवा सीदे"ति सायं तृतीयाम् ।
“हरिणीं त्वा रजतगर्भां सूर्यज्योतिषम् अक्षितिं कामदुघां स्वर्ग्यां स्वर्गाय लोकाय +अहर् इष्टकाम् उपदध” इति प्रातः ४
एषा ते अग्ने समिदिति । हिरण्ययं त्वा वंशं स्वर्गस्य लोकस्य् सङ्क्रमणं दधामीति द्वितीयाम् । रजतां त्वा हरितगर्भामग्निज्योतिषमक्षितिं कामदुघां स्वर्ग्यां स्वर्गाय लोकाय रात्रिमिष्टकामुपदधे तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति सायं तृतीयाम् । हरिणीं त्वा रजतगर्भां सूर्यज्योतिषमक्षितिं कामदुघां स्वर्ग्यां स्वर्गाय लोकायाहरिष्टकामुपदध इति प्रातः ४
इति नवमी कण्डिका