०८

01 अग्नये च त्वा ...{Loading}...

“अग्नये च त्वा पृथिव्यै चोन्नयामी"ति प्रथमं, “वायवे च त्वान्तरिक्षाय चे"ति द्वितीयं, “सूर्याय त्वा दिवे चे"ति तृतीयं, “चन्द्रमसे च त्वा नक्षत्रेभ्यश्चे"ति चतुर्थम् १

02 अद्भ्यश्च त्वौषधीभ्यश्चेति पञ्चमञ् ...{Loading}...

“अद्भ्यश्च त्वौषधीभ्यश्चे"ति पञ्चमं जमदग्नीनाम् २

03 भूरिडा भुव इडा ...{Loading}...

भूरिडा भुव इडा सुवरिडा करदिडा पृथगिडेति वा प्रतिमन्त्रम् ३

04 पशून्मे यच्छेत्यपरेण गार्हपत्यमुन्नयनदेशेऽभितरां ...{Loading}...

“पशून्मे यच्छे"त्यपरेण गार्हपत्यम् उन्नयनदेशे ऽभितरां+++(=अतिसमीपे)+++ वा सादयित्वा
गार्हपत्ये हस्तं प्रताप्य
संमृशति “सजूर्देवैः सायं यावभिः सायं यावानो देवाः स्वस्ति संपारयन्तु पशुभिः संपृचीय प्रजां दृंहे"ति सायम् । “सजूर्देवैः प्रातर्यावभिः …” इति प्रातः ४

05 दशहोत्रा चाभिमृश्य पालाशीं ...{Loading}...

दशहोत्रा+++(मन्त्रविशेषः)+++ चाभिमृश्य
पालाशीं समिधं प्रादेशमात्रीमुपरि धारयन्
गार्हपत्यस्य समया ऽर्चिर् हरति ५

06 उर्वन्तरिक्षं वीहीत्युद्द्रवति ...{Loading}...

+++(आहवनीयम् प्रति)+++ “उर्वन्तरिक्षं वीही"त्य् उद्द्रवति+++(=गच्छति)+++ ६

07 उद्द्रवन्दशहोतारं व्याचष्टे ...{Loading}...

उद्द्रवन् दशहोतारं+++(मन्त्रविशेषः)+++ व्याचष्टे ७

08 समङ् ग्राणैर्हरति ...{Loading}...

समं प्राणैर्हरति ८

09 स्वाहाग्नये वैश्वानरायेति मध्यदेशे ...{Loading}...

“स्वाहाग्नये वैश्वानराये"ति मध्यदेशे नि+++(नीचैर्)+++यच्छति ९

10 वाताय त्वेत्युद्गृह्णाति ...{Loading}...

वाताय त्वेत्युद्गृह्णाति +++(प्राणसमम्)+++ १०

11 उपप्रेत संयतध्वम् मान्तर्गात ...{Loading}...

“उपप्रेत संयतध्वं, मान्तर्गात भागिनं भागधेयात्, सप्तर्षीणां सुकृतां यत्र लोकस्, तत्रेमं यज्ञं यजमानं च धेह्युप प्रत्नम् उप भूर्भुवः सुवरायुर् मे यच्छे"त्यपरेणाहवनीयं दर्भेषु सादयति ११

इत्यष्टमी कण्डिका इति द्वितीयः पटलः


  1. See II.18.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. KS VI.4. ↩︎

  3. Cf. MS I.8.4. ↩︎

  4. Cp. TB II.1.5.10. ↩︎