01 अग्नये च त्वा …{Loading}…
“अग्नये च त्वा पृथिव्यै चोन्नयामी"ति प्रथमं, “वायवे च त्वान्तरिक्षाय चे"ति द्वितीयं, “सूर्याय त्वा दिवे चे"ति तृतीयं, “चन्द्रमसे च त्वा नक्षत्रेभ्यश्चे"ति चतुर्थम् १
थिते
- (The Adhvaryu) scoops first with agnaye ca tvā prthivyai connayāmi, second with vāyave ca tvāntarikṣāya ca, third with sūryāya ca tvā dive ca…, fourth with candramase ca tvā nakṣatrebhyaśca…..
अग्नये च त्वा पृथिव्यै चोन्नयामीति प्रथमं वायवे च त्वान्तरिक्षाय चेति द्वितीयं सूर्याय त्वा दिवे चेति तृतीयं चन्द्रमसे च त्वा नक्षत्रेभ्यश्चेति चतुर्थम् १
02 अद्भ्यश्च त्वौषधीभ्यश्चेति पञ्चमञ् …{Loading}…
“अद्भ्यश्च त्वौषधीभ्यश्चे"ति पञ्चमं जमदग्नीनाम् २
थिते
- In the case of (sacrificers) belonging to Jamadgni-family, fifth with adbhyaśca tvāuṣadhibhyaḥ.1
अद्भ्यश्च त्वौषधीभ्यश्चेति पञ्चमं जमदग्नीनाम् २
03 भूरिडा भुव इडा …{Loading}…
भूरिडा भुव इडा सुवरिडा करदिडा पृथगिडेति वा प्रतिमन्त्रम् ३
थिते
- Or with each one of the formulae viz. bhūriḍā, bhuva-iḍā, suvariḍa, karadiḍā, pr̥thagiḍa.
भूरिडा भुव इडा सुवरिडा करदिडा पृथगिडेति वा प्रतिमन्त्रम् ३
04 पशून्मे यच्छेत्यपरेण गार्हपत्यमुन्नयनदेशेऽभितरां …{Loading}…
“पशून्मे यच्छे"त्यपरेण गार्हपत्यम् उन्नयनदेशे ऽभितरां+++(=अतिसमीपे)+++ वा सादयित्वा
गार्हपत्ये हस्तं प्रताप्य
संमृशति “सजूर्देवैः सायं यावभिः सायं यावानो देवाः स्वस्ति संपारयन्तु पशुभिः संपृचीय प्रजां दृंहे"ति सायम् । “सजूर्देवैः प्रातर्यावभिः …” इति प्रातः ४
थिते
- With paśūn me pāhi1 having kept the Agnihotra-ladle containing the scooped milk either to the west of the Gārhapatya-fire where the scooping was done2 or near the Gārhapatya,3 having heated his hand on the Gārhapatya, he touches the ladle with sajūrdevaiḥ sāyaṁyāvabhiḥ…4 in the evening; with sajūrdevaiḥ prātaryāvabhiḥ.., in the morning.
पशून्मे यच्छेत्यपरेण गार्हपत्यमुन्नयनदेशेऽभितरां वा सादयित्वा गार्हपत्ये हस्तं प्रताप्य सम्मृशति सजूर्देवैः सायंयावभिः सायंयावानो देवाः स्वस्ति सम्पारयन्तु पशुभिः सम्पृचीय प्रजां दृंहेति सायम् । सजूर्देवैः प्रातर्यावभिः प्रातर्यावाणो देवाः स्वस्ति सम्पारयन्तु पशुभिः सम्पृचीय प्रजां दृंहेति प्रातः ४
05 दशहोत्रा चाभिमृश्य पालाशीं …{Loading}…
दशहोत्रा+++(मन्त्रविशेषः)+++ चाभिमृश्य
पालाशीं समिधं प्रादेशमात्रीमुपरि धारयन्
गार्हपत्यस्य समया ऽर्चिर् हरति ५
थिते
- And having touched (the Agnihotra-ladle) also with the Daśahotr̥-formula,1 holding a one-span long fuel-stick of Palāśa-wood upon the Gārhapatya, he carries it near the flame (in the fire).
दशहोत्रा चाभिमृश्य पालाशीं समिधं प्रादेशमात्रीमुपरि धारयन्गार्हपत्यस्य समयार्चिर्हरति ५
06 उर्वन्तरिक्षं वीहीत्युद्द्रवति …{Loading}…
+++(आहवनीयम् प्रति)+++ “उर्वन्तरिक्षं वीही"त्य् उद्द्रवति+++(=गच्छति)+++ ६
थिते
- With urvantarikṣaṁ vīhi1 he runs from Gārhapatya towards the Āhavanīya.
उर्वन्तरिक्षं वीहीत्युद्द्रवति ६
07 उद्द्रवन्दशहोतारं व्याचष्टे …{Loading}…
उद्द्रवन् दशहोतारं+++(मन्त्रविशेषः)+++ व्याचष्टे ७
थिते
- While running he mutters the Daśahotr̥-formula.1
उद्द्रवन्दशहोतारं व्याचष्टे ७
08 समङ् ग्राणैर्हरति …{Loading}…
समं प्राणैर्हरति ८
थिते
- He carries the Agnihotra-ladle at the level of his nose.
समं ग्राणैर्हरति ८
09 स्वाहाग्नये वैश्वानरायेति मध्यदेशे …{Loading}…
“स्वाहाग्नये वैश्वानराये"ति मध्यदेशे नि+++(नीचैर्)+++यच्छति ९
थिते
- At the half of the distance (between the Gārhaptya and Āhavanīya) he lowers (the Agnihotra-ladle) with svāhāgnaye vaiśvānarāya.
स्वाहाग्नये वैश्वानरायेति मध्यदेशे नियच्छति ९
10 वाताय त्वेत्युद्गृह्णाति …{Loading}…
वाताय त्वेत्युद्गृह्णाति +++(प्राणसमम्)+++ १०
थिते
- With vātāya tvā he takes up the Agnihotra-ladle at the level of nose.
वाताय त्वेत्युद्गृह्णाति १०
11 उपप्रेत संयतध्वम् मान्तर्गात …{Loading}…
“उपप्रेत संयतध्वं, मान्तर्गात भागिनं भागधेयात्, सप्तर्षीणां सुकृतां यत्र लोकस्, तत्रेमं यज्ञं यजमानं च धेह्युप प्रत्नम् उप भूर्भुवः सुवरायुर् मे यच्छे"त्यपरेणाहवनीयं दर्भेषु सादयति ११
थिते
- With upapreta saṁyatadhvam… upa pratnam upa, bhūḥ bhuvaḥ svaḥ. āyur me yaccha he keeps the Agnihotra-ladle on the Darbha-grass, to the west of the Āhavanīya.
उपप्रेत संयतध्वं मान्तर्गात भागिनं भागधेयात्सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेह्युप प्रत्नमुप भूर्भुवः सुवरायुर्मे यच्छेत्यपरेणाहवनीयं दर्भेषु सादयति ११
इत्यष्टमी कण्डिका इति द्वितीयः पटलः