०७

01 देवस्य त्वा सवितुः ...{Loading}...

“देवस्य त्वा सवितुः प्रसव” इति स्रुक्स्रुवमादाय
“प्रत्युष्टं रक्षाः, प्रत्युष्टा अरातय” इत्याहवनीये गार्हपत्ये वा प्रतितप्य
“अरिष्टो यजमानः पत्नी चे"ति +++(हस्तेन)+++ संमृश्य
“हिरण्ययष्टिरस्यमृतपलाशा, स्रोतो यज्ञानामि"त्यग्निहोत्रहवणीम् अभिमन्त्र्य
“ओमुन्नेष्यामि हव्यं देवेभ्यः पाप्मनो यजमानमि"ति सायमाह । “ओमुन्नयामी"ति प्रातः १

02 हविर्देवानामसि मृत्योर्मेऽभयं स्वस्ति ...{Loading}...

“हविर्देवानामसि। मृत्योर् मे ऽभयं, स्वस्ति मे ऽस्त्व्, अभयं मे अस्त्वि"त्युपांशूक्त्वा
“ओमुन्नये"त्युच्चैरनुजानाति । अपचारे यजमानस्य स्वयमात्मानमनुजानीयात् २

03 उन्नीयमान उभौ वाचं ...{Loading}...

उन्नीयमान उभौ वाचं यच्छत आ होमात् ३

04 न चाभिमीलते तिष्ठति ...{Loading}...

न +++(नेत्रे)+++ चाभिमीलते तिष्ठति च यजमानः ४

05 उन्नीत उपविशति ...{Loading}...

उन्नीत उपविशति ५

06 चतुरुन्नयति ...{Loading}...

चतुरुन्नयति +++(स्रुचा हवन्याम्)+++६

07 यङ् कामयेत पुत्राणामयमृध्नुयादिति ...{Loading}...

यं कामयेत +++(यजमान-)+++पुत्राणाम् +++(मध्ये)+++ अयमृध्नुयादिति तं प्रति +++(चित्तं कृत्वा)+++ पूर्णमुन्नयेत् ७

08 यदि कामयेत ज्येष्ठतोऽस्य ...{Loading}...

यदि कामयेत ज्येष्ठतो +++(क्रमशः)+++ ऽस्य प्रजा ऽर्धुका स्यादिति पूर्णं प्रथममुन्नयेत्तत ऊनतरमूनतरम् । कणिष्ठत इत्येतद्विपरीतम् । सर्वे समावद्+++(तुल्य)+++वीर्या इति समम् ८

09 यथोपलम्भन् नित्ये कल्प ...{Loading}...

यथोपलम्भं+++(=यथाकामं)+++ नित्ये कल्प उन्नयति ९

इति सप्तमी कण्डिका


  1. TS I.3.1.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.1.4.c. ↩︎ ↩︎ ↩︎

  3. JB. ↩︎ ↩︎