०६

01 रेतो वा अग्निहोत्रम् ...{Loading}...

+++(दोहनस्थमपि पयो ऽग्निहोत्रस्थाल्याम् आनीय तामधिश्रयति)+++ रेतो वा अग्निहोत्रम् । न सुशृतं+++(=सुपक्तम्)+++ कुर्याद्, रेतः कूलयेन्+++(दहेद्)+++। नो ऽशृतम्। अन्तरा+++(तयोर् मध्य)+++ +इवैव स्यात् १

02 समुदन्तं होतव्यम् ...{Loading}...

समुदन्तं+++(=समुद्गतान्तम् - यथा मध्ये न स्यात् फेनः)+++ होतव्यम् २

03 उदन्तीकृत्य प्रतिषिच्यम् ...{Loading}...

उदन्तीकृत्य प्रतिषिच्यम् +++(=उपरिष्टाद् अब्बिन्दुक्षेपः)+++३

04 अप्रतिषेक्यं स्यात्तेजस्कामस्य ब्रह्मवर्चसकामस्य ...{Loading}...

अप्रतिषेक्यं स्यात् तेजस्कामस्य, ब्रह्मवर्चसकामस्य, पाप्मानं तुस्तूर्षमाणस्य+++(=पश्चान्निनीषुः)+++, अथो सर्वेभ्यः कामेभ्यो, ऽथो यः कामयेत वीरो म आजायेतेति ४

05 अम्नरधिश्रितं वा ...{Loading}...

+++(तेषां सूत्रान्तरे हविरन्तरम् उक्तम्)+++
अम्नर्+++(=ईषद्)+++ अधिश्रितं वा +++(प्रतिषिच्यम्)+++५

06 अदब्धेन त्वा चक्षुषावेक्ष ...{Loading}...

“अदब्धेन त्वा चक्षुषावेक्ष” इति तृणेन ज्वलतावेक्षते ६

07 दोहनसङ्क्षालनं स्रुव आनीय ...{Loading}...

दोहनसंक्षालनं स्रुव+++(य्)+++ आनीय, “हरस्ते मा विनैषमि"ति तेन प्रतिषिञ्चत्य्, अपां वा स्तोकेन +++(स्रुवेणैव)+++७

08 उद्भव स्थोदहम् प्रजया ...{Loading}...

“उद्भव स्थोदहं प्रजया प्र पशुभिर्भूयासं हरस्ते मा विगादुद्यन्सुवर्गो लोकस्त्रिषुलोकेषु रोचये"ति पुनरेवावेक्ष्य
“अन्तरितं रक्षो, ऽन्तरिता अरातयो, ऽपहता व्यृद्धिर्, अपहतं पापं, कर्मापहतं पापस्य, पापकृतः पापं कर्म यो नः पापं कर्म चिकीर्षति प्रत्यगेनम् ऋच्छे"ति त्रिः पर्यग्नि कृत्वा,

उद्वासनम्

“घर्मोऽसि रायस्पोषवनिरिहोर्जं दृंहे"ति वर्त्म कुर्वन् प्रागुद्वासयत्युदक् प्रागुदग्वा ८

09 न वर्त्म करोतीत्येके ...{Loading}...

न वर्त्म करोतीत्येके ९

10 इह प्रजाम् पशून्दृंहेति ...{Loading}...

“इह प्रजां पशून् दृंहे"ति +++(अङ्गारान्)+++ त्रिर् भूमौ+++(=यत्रोन्नयनं भविष्यति)+++ प्रतिष्ठाप्य
+++(अङ्गारापोहनं कृतञ्चेत्)+++ “सभूतकृत स्थ प्रत्यूढं जन्यं भयं प्रत्यूढाः सेना अभीत्वरीरि"ति गार्हपत्ये ऽङ्गारान् प्रत्यूह्य १०

इति षष्ठी कण्डिका


  1. KS VI.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.1.8.1. ↩︎

  3. i.e. a burning fire-brand. ↩︎

  4. Cf. TB II.1.3.4-5. ↩︎

  5. Thus he does not lift up the vessel from the fire, but drags it away. ↩︎

  6. As described in Sūtra 6. ↩︎