०५

01 पत्नीवदस्याग्निहोत्रम् भवति ...{Loading}...

पत्नीवदस्याग्निहोत्रं भवति १

02 स्व आयतने पत्न्युपविशति ...{Loading}...

स्व आयतने+++(दर्शपूर्णमाससिद्धम् - देशाद्दक्षिणत उदीची)+++ पत्न्युपविशति २

03 अपरेणाहवनीयन् दक्षिणातिक्रम्योपविश्य यजमानो ...{Loading}...

अपरेणाहवनीयं दक्षिणातिक्रम्योपविश्य यजमानो “विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमि मयि श्रद्धे"त्यप आचामति ३

04 ऋतन् त्वा सत्येन ...{Loading}...

“ऋतं त्वा सत्येन परिषिञ्चामी"ति सायं परिषिञ्चति । “सत्यं त्वर्तेन परिषिञ्चामी"ति प्रातः । आहवनीयमग्रे ऽथ गार्हपत्यमथ दक्षिणाग्निमपि वा गार्हपत्यमाहवनीयं दक्षिणाग्निं यथा वाहिताः ४

05 यज्ञस्य सन्ततिरसि यज्ञस्य ...{Loading}...

“यज्ञस्य संततिरसि यज्ञस्य त्वा संततिमनुसंतनोमी"ति गार्हपत्यात्प्रक्रम्य संततामुदकधारां स्रावयत्याहवनीयात् ५

06 धृष्टिरसि ब्रह्म यच्छेत्युपवेषमादाय ...{Loading}...

“धृष्टिरसि ब्रह्म यच्छे"त्युपवेषमादाय
“भूतकृतस्थापोढं जन्यं भयमपोढाः सेना अभीत्वरीरि"ति गार्हपत्यादुदीचो ऽङ्गारान्निरूह्य
व्यन्तान्+++(=अपेतान् आयतनात्)+++ गार्हपत्येन कृत्वा
“सगरा स्थे"त्यभिमन्त्र्य
जपत्य् “अग्नय आदित्यं गृह्णाम्यह्ने रात्रिमि"ति सायम् । “आदित्यायाग्निं गृह्णामि रात्र्या अहरि"ति प्रातः ६

07 इडायाः पदङ् घृतवच्चराचरञ् ...{Loading}...

“इडायाः पदं घृतवच् चराचरं जातवेदो हविरिदं जुषस्व । ये ग्राम्याः पशवो विश्वरूपा विरूपास् तेषां सप्तानामिह रन्तिरस्तु । रायस्पोषाय सुप्रजास्त्वाय सुवीर्याये"ति तेष्वग्निहोत्रम् अधिश्रयति ७

इति पञ्चमी कण्डिका


  1. See IV.4.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. JB ↩︎ ↩︎ ↩︎

  3. viz. Gārhapatya, Dakṣiṇa, Āhavanīya. Cp. VI.2.5. ↩︎ ↩︎

  4. This formula also occurs only in Āp. ↩︎