०४

01 पूर्वौ दुह्याज्ज्येष्ठस्य ज्यैष्ठिनेयस्य ...{Loading}...

पूर्वौ +++(स्तनौ)+++ दुह्याज्ज्येष्ठस्य ज्यैष्ठिनेयस्य+++(=ज्येष्ठभार्यापुत्रः)+++ यो वा गतश्रीः स्यात् । अपरौ दुह्यात्कनिष्ठस्य कानिष्ठिनेयस्य यो वानुजावरो यो वा बुभूषेत् १

02 न स्तनान्सम्मृशति ...{Loading}...

+++(प्रस्नवनार्थं)+++ न स्तनान्संमृशति २

03 यथोपलम्भन् नित्ये कल्पे ...{Loading}...

यथोपलम्भं +++(स्तनविशेषमनवेक्ष्य)+++ नित्ये कल्पे दोग्धि ३

04 पूर्ववदुपसृष्टान् दुह्यमानान् धाराघोषञ् ...{Loading}...

पूर्ववद् उपसृष्टां दुह्यमानां धाराघोषं च यजमानो ऽनुमन्त्रयते ४

05 अस्तमिते दोग्धि ...{Loading}...

अस्तमिते दोग्धि ५

06 अम्नरस्तमिते होतव्यम् ...{Loading}...

अम्नर्+++(ईषद्)+++ अस्तमिते होतव्यम् । ६

07 समुद्रो वा एष ...{Loading}...

समुद्रो वा एष यदहोरात्रस्तस्यैते गाधे तीर्थे यत्संधी। तस्मात् संधौ होतव्यमिति शैलालिब्राह्मणं भवति ७

08 नक्षत्रन् दृष्ट्वा प्रदोषे ...{Loading}...

+++(प्रथमं)+++ नक्षत्रं दृष्ट्वा, प्रदोषे +++(सर्वेषु नक्षेत्रेषूदितेषु)+++, निशायां +++(=यदा शेरते भूताः)+++ वा सायम् ८

09 उपस्युपोदयं समयाविषित उदिते ...{Loading}...

उषस्युपोदयं, समयाविषित +++(अर्धोदितः)+++, उदिते वा प्रातः ९

10 यदुदिते जुहोत्यग्निष्टोमन् तेनावरुन्द्धे ...{Loading}...

+++(आपदि)+++ यदुदिते जुहोत्यग्निष्टोमं तेनावरुन्द्धे।
यन्मध्यंदिने जुहोत्युक्थ्यं तेनावरुन्द्धे।
यदपराह्णे जुहोति षोडशिनं तेनावरुन्द्धे।
यत्पूर्वरात्रे जुहोति +++(अतिरात्रे)+++ प्रथमं तेन रात्रिपर्यायमाप्नोति।
यन्मध्यरात्रे जुहोति मध्यमं तेन रात्रिपर्यायमाप्नोति।
यदपररात्रे जुहोति जघन्यं तेन रात्रिपर्यायमाप्नोति। १०

11 स न मन्येत ...{Loading}...

स +++(स्वस्थो)+++ न मन्येत सर्वेष्वेतेषु कालेषु होतव्यम् +++(इति)+++। आपदि हुतम् इत्येव प्रतीयादिति विज्ञायते +++(न तदा प्रायश्चित्तम्)+++११

12 यो होमकालः सोऽङ्गानाम् ...{Loading}...

यो होमकालः सोऽङ्गानाम् १२

इति चतुर्थी कण्डिका इति प्रथमः पटलः


  1. Cf. TB II.1.8.1. There is no reference to the “posthumous son” here. Cp. also II.19.3-4. ↩︎ ↩︎ ↩︎ ↩︎