०३

01 परिसमूहनेनाग्नीनलङ्कुर्वन्ति …{Loading}…

परिसमूहनेनाग्नीनलंकुर्वन्ति १

02 पुरस्तादलङ्काराः सायमुपरिष्टादलङ्काराः प्रातः …{Loading}…

पुरस्तादलंकाराः सायम्, +++(दीदिहीत्युपसमिन्धनात्)+++ उपरिष्टादलंकाराः प्रातः २

03 एतद्वा विपरीतम् उभयतोऽलङ्काराः …{Loading}…

एतद्वा विपरीतम् । उभयतोऽलंकाराः सायं तथा प्रातरित्येके ३

04 अग्ने गृहपते शुन्धस्वेति …{Loading}…

अग्ने गृहपते शुन्धस्वेति गार्हपत्यमग्ने वह्ने शुन्धस्वेति दक्षिणाग्निमग्ने सम्राट् शुन्धस्वेत्याहवनीयमग्ने सभ्य शुन्धस्वेति सभ्यमग्ने परिषद्य शुन्धस्वेत्यावसथ्यम् ४

05 उदगग्रैः प्रागग्रैश्च दर्भैस्तृणैर्वाग्नीन्परिस्तृणात्यग्निमग्नी …{Loading}…

उदगग्रैः प्रागग्रैश्च दर्भैस् तृणैर् वाग्नीन् परिस्तृणात्य्,
अग्निम् अग्नी वा ५

06 खादिरः स्रुवो वैकङ्कत्यग्निहोत्रहवणी …{Loading}…

खादिरः स्रुवो,
वैकङ्कत्य् अग्नि-होत्र-हवणी+++(←स्रुक् इव)+++,
बाहुमात्र्य् अरत्निमात्री+++(=कूर्परात् कनिष्ठिकान्तं यावत्)+++ वा ६

07 प्रसृताकृतिरार्यकृताग्निहोत्रस्थाल्यूर्ध्वकपालाचक्रवर्ता भवति …{Loading}…

प्रसृताकृतिर् आर्य-कृताग्निहोत्र-स्थाल्य्
ऊर्ध्व-कपालाचक्रवर्ता भवति ७

08 दक्षिणेन विहारमग्निहोत्री तिष्ठति …{Loading}…

दक्षिणेन विहारमग्निहोत्री +++(गौः)+++ तिष्ठति, तां यजमानोऽभिमन्त्रयत “इडासि व्रतभृदहं नावुभयोर्व्रतं चरिष्यामि, सुरोहिष्यहं नावुभयोर्व्रतं चरिष्यामीड एहि, मयि श्रयस्वेर एह्यदित एहि, गौरेहि, श्रद्ध एहि, सत्येन त्वाह्वयामी"ति ८

09 अथ वेदिदेशमभिमृशतीयमसि तस्यास्तेऽग्निर्वत्सः …{Loading}…

अथ वेदिदेशम् अभिमृशती"यमसि, तस्यास्ते ऽग्निर्वत्सः, सा मे स्वर्गं च लोकममृतं च धुक्ष्वे"ति ९

10 पूषासीति दक्षिणतो वत्समुपसृज्य …{Loading}…

“पूषासी"ति दक्षिणतो वत्समुपसृज्य, प्राचीमावृत्य, दोग्ध्युदीचीं प्राचीमुदीचीं वा १०

11 न शूद्रो दुह्यात् …{Loading}…

न शूद्रो दुह्यात् ११

12 असतो वा एष …{Loading}…

असतो वा एष संभूतो यच्छूद्रः १२

13 दुह्याद्वा …{Loading}…

दुह्याद्वा १३

14 यदेव गार्हपत्येऽधिश्रयति पवयत्येवैनत् …{Loading}…

यदेव गार्हपत्ये ऽधिश्रयति पवयत्येवैनत् १४

15 अग्निहोत्रस्थाल्या दोहनेन च …{Loading}…

अग्निहोत्रस्थाल्या दोहनेन च दोग्धि १५

इति तृतीया कण्डिका


  1. The Adhvaryu, sacrificer and his wife. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. viz. Āhavanīya and Gārhapatya. ↩︎ ↩︎ ↩︎

  3. Thus towards the south and north the points of the grass should be eastwards and towards the east and west the points be northwards. ↩︎