०२

01 अग्ने सम्राडजैकपादाहवनीय दिवः ...{Loading}...

“अग्ने सम्राडजैकपादाहवनीय दिवः पृथिव्याः पर्यन्तरिक्षाल् लोकं विन्द यजमानाय । पृथिव्यास्त्वा मूर्धन् सादयामि यज्ञिये लोके । यो नो अग्ने निष्ठो यो ऽनिष्ट्यो ऽभिदासतादमहं तं त्वयाभिनिदधामी"ति पुरस्तात् परिक्रम्योदङ्मुखः प्रत्यङ्मुखो वा सायमायतनेऽग्निं प्रतिष्ठापयति । प्राङ्मुखः प्रातः १ +++(सूर्यादग्निरायातीति भावः)+++

02 स्वयं यजमान इध्मानाहरति ...{Loading}...

स्वयं यजमान इध्मानाहरति “विश्वदानीमाभरन्तो नातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषामे"त्येतया २

03 यदग्ने यानि कानि ...{Loading}...

“यदग्ने यानि कानि चे"त्येताभिः पञ्चभिः प्रतिमन्त्रमग्निषु महत इध्मानादधाति ३

04 आहवनीये वर्षिष्ठम् ...{Loading}...

आहवनीये वर्षिष्ठम्+++(=गुरुतरः)+++ ४

05 यथाहितास्तेनानुपूर्व्येणाहवनीयाद्वा प्रक्रम्य ...{Loading}...

यथाहितास् तेनानुपूर्व्येणाऽऽहवनीयाद्वा प्रक्रम्य +++(आदधाति)+++५

06 तथाग्निराधेयो यथाहुतिर्न व्यवेयात् ...{Loading}...

तथाग्निराधेयो+++(अच्छिद्र इध्मः)+++ यथाहुतिर्न व्यवेयात् +++(=भित्त्वाग्निं भूमिं न प्राप्नुयात्)+++ ६

07 नान्तराग्नी सञ्चरति ...{Loading}...

नान्तराग्नी +++(=गार्हपत्याहवनीययोर् मध्ये)+++ संचरति ७

08 यदि पूर्वोऽनुगतः सञ्चर्यम् ...{Loading}...

यदि पूर्वोऽनुगतः संचर्यम् ८

09 पश्चाद्धि स तर्हि ...{Loading}...

पश्चाद्धि +++(गार्हपत्ये)+++ स तर्हि गतः ९

10 कामं हुते सञ्चर्यमित्येके ...{Loading}...

कामं हुते संचर्यमित्येके १०

11 नक्तमाहवनीयन् धारयति ...{Loading}...

नक्तमाहवनीयं धारयति +++(पक्षे, “प्राङ्मुखः प्रातर्” इति वचनात्।)+++ ११

12 नित्यो गतश्रियो ध्रियते ...{Loading}...

नित्यो गतश्रियो ध्रियते +++(आहवनीयः)+++ १२

13 नित्यङ् गार्हपत्यम् ...{Loading}...

नित्यं गार्हपत्यम् १३

14 तथान्वाहार्यपचनं यदि मथित्वाहितो ...{Loading}...

तथान्वाहार्यपचनं+++(=दक्षिणाग्निम्, यत्र ऋत्विजां कृत ओदनम् पच्यते)+++ यदि मथित्वाहितो भवति +++(दक्षिणाग्निः)+++ १४

15 यद्याहार्योऽहरहरेनन् दक्षिणत आहरन्ति ...{Loading}...

यद्याहार्योऽहरहरेनं+++(=दक्षिणाग्निम्)+++ दक्षिण+++(देश)+++त आहरन्ति १५

16 उपवसथ एवैनमाहरेयुर्नवावसान एवैनमाहरेयुरिति ...{Loading}...

उपवसथ+++(=अग्न्यन्वाधानकाले, अग्निस्थापनात्परम् इध्माधाने)+++ एवैनमाहरेयुर्, नवावसान+++(=देशान्तरप्राप्तौ वासार्थं)+++ एवैनम् आहरेयुरिति वाजसनेयकम् १६

इति द्वितीया कण्डिका


  1. TS IV.1.10.a-e ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Āhavanīya, Gārhapatya, Dakṣiṇa, Sabhya and Āvasathya. ↩︎ ↩︎