०१

01 अग्निहोत्रं व्याख्यास्यामः ...{Loading}...

अग्निहोत्रं व्याख्यास्यामः १

02 अधिवृक्षसूर्य आविःसूर्ये वा ...{Loading}...

अधिवृक्षसूर्य आविः+++(=प्रकाश)+++सूर्ये वा “धृष्टिरसि ब्रह्म यच्छे"त्युपवेषमादाय गार्हपत्यमभिमन्त्रयते “सुगार्हपत्य” इति २

03 अथैनम् बोधयत्युद्वुध्यस्वाग्ने प्रति ...{Loading}...

अथैनं बोधयत्य् “उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृह्येनम्+++(=यजमानम्)+++, इष्टापू॒र्ते सँसृ॑जेथाम॒यं च॑ +++(त्वञ्च)+++। अ॒स्मिन्त् स॒धस्थे॒ +++(=सहस्थाने - लोके)+++ अध्युत्त॑रस्मिन्न् +++(द्युलोके)+++ विश्वे॑ देवा॒ यज॑मानश्च सीदत " इति ३

04 उद्धरेत्येव सायमाह यजमानः ...{Loading}...

“उद्धरेत्ये"व सायमाह यजमानः +++(उद्धरणमन्त्रन्त्वध्वर्युः)+++। “उद्धरे"ति प्रातः ४

05 सहस्रन् तेन कामदुघोऽवरुन्द्धे ...{Loading}...

सहस्रं तेन कामदुघो ऽवरुन्द्धे+++(=लभते)+++ ५

06 वाचा त्वा होत्रा ...{Loading}...

“वाचा त्वा होत्रा प्राणेनोद्गात्रा चक्षुषाध्वर्युणा मनसा ब्रह्मणा श्रोत्रेणाग्नीधैतैस्त्वा पञ्चभिर्दैव्यैरृत्विग्भिरुद्धरामी"ति गार्हपत्यादाहवनीयं ज्वलन्तमुद्धरति ६

07 भूर्भुवः सुवरुद्ध्रियमाण उद्धर ...{Loading}...

“भूर्भुवः सुवरुद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वान्यच्च विद्वांश्चकार । अह्ना यदेनः कृतमस्ति पापं सर्वस्मान् मोद्धृतो मुञ्च तस्मादि"त्युद्ध्रियमाणमभिमन्त्रयते यजमानः सायम् । “रात्र्या यदेनः कृतमस्ति पापं सर्वस्मान्मोद्धृतो मुञ्च तस्मादि"ति प्रातः ७

08 अग्निपतयेऽग्नये मे विद्ध्यग्निपतयेऽग्नये ...{Loading}...

“अग्निपतये ऽग्नये मे विद्ध्यग्निपतयेऽग्नये मे मृड । अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य जित्यै । तयानन्तं काममहं जयानि, प्रजापतिर्यं प्रथमो जिगाय+++(=अजयत्?)+++ +अग्निम् अग्नौ स्वाहा” ८

इति प्रथमा कण्डिका


  1. Libation of milk in fire in the evening and morning. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB I.2.1.20-21. ↩︎