01 अग्निहोत्रं व्याख्यास्यामः …{Loading}…
अग्निहोत्रं व्याख्यास्यामः १
थिते
- We shall explain the Agnihotra.1
अग्निहोत्रं व्याख्यास्यामः १
02 अधिवृक्षसूर्य आविःसूर्ये वा …{Loading}…
अधिवृक्षसूर्य आविः+++(=प्रकाश)+++सूर्ये वा “धृष्टिरसि ब्रह्म यच्छे"त्युपवेषमादाय गार्हपत्यमभिमन्त्रयते “सुगार्हपत्य” इति २
अधिवृक्षसूर्य आविःसूर्ये वा धृष्टिरसि ब्रह्म यच्छेत्युपवेषमादाय गार्हपत्यमभिमन्त्रयते सुगार्हपत्य इति २
03 अथैनम् बोधयत्युद्वुध्यस्वाग्ने प्रति …{Loading}…
अथैनं बोधयत्य् “उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृह्येनम्+++(=यजमानम्)+++, इष्टापू॒र्ते सँसृ॑जेथाम॒यं च॑ +++(त्वञ्च)+++। अ॒स्मिन्त् स॒धस्थे॒ +++(=सहस्थाने - लोके)+++ अध्युत्त॑रस्मिन्न् +++(द्युलोके)+++ विश्वे॑ देवा॒ यज॑मानश्च सीदत " इति ३
थिते
- Then he makes it (the fire) wake up (i.e. visible), by removing the ashes with udbudhyasvāgne…1
अथैनं बोधयत्युद्वुध्यस्वाग्ने प्रति जागृह्येनमिष्टापूर्ते संसृजेथामयं च । अस्मिन्सधस्थे अध्युत्तरस्मिन्विश्वे देवा यजमानश्च सीदतेति ३
04 उद्धरेत्येव सायमाह यजमानः …{Loading}…
“उद्धरेत्ये"व सायमाह यजमानः +++(उद्धरणमन्त्रन्त्वध्वर्युः)+++। “उद्धरे"ति प्रातः ४
थिते
- In the evening the sacrificer says (to the Adhvaryu), “Do you take up the fire”; similarly in the morning he says, “Do you take up (the fire)”.
उद्धरेत्येव सायमाह यजमानः । उद्धरेति प्रातः ४
05 सहस्रन् तेन कामदुघोऽवरुन्द्धे …{Loading}…
सहस्रं तेन कामदुघो ऽवरुन्द्धे+++(=लभते)+++ ५
थिते
- Thereby the sacrificer obtains one thousand desire (fulfilling) cows.1
सहस्रं तेन कामदुघोऽवरुन्द्धे ५
06 वाचा त्वा होत्रा …{Loading}…
“वाचा त्वा होत्रा प्राणेनोद्गात्रा चक्षुषाध्वर्युणा मनसा ब्रह्मणा श्रोत्रेणाग्नीधैतैस्त्वा पञ्चभिर्दैव्यैरृत्विग्भिरुद्धरामी"ति गार्हपत्यादाहवनीयं ज्वलन्तमुद्धरति ६
थिते
- With vācā tvā hotrā… the Adhvaryu takes up the burning Āhavanīya (i.e. a burning fire-brand to be kept in the place of the Āhavanīya) from the Gārhapatya.
वाचा त्वा होत्रा प्राणेनोद्गात्रा चक्षुषाध्वर्युणा मनसा ब्रह्मणा श्रोत्रेणाग्नीधैतैस्त्वा पञ्चभिर्दैव्यैरृत्विग्भिरुद्धरामीति गार्हपत्यादाहवनीयं ज्वलन्तमुद्धरति ६
07 भूर्भुवः सुवरुद्ध्रियमाण उद्धर …{Loading}…
“भूर्भुवः सुवरुद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वान्यच्च विद्वांश्चकार । अह्ना यदेनः कृतमस्ति पापं सर्वस्मान् मोद्धृतो मुञ्च तस्मादि"त्युद्ध्रियमाणमभिमन्त्रयते यजमानः सायम् । “रात्र्या यदेनः कृतमस्ति पापं सर्वस्मान्मोद्धृतो मुञ्च तस्मादि"ति प्रातः ७
थिते
- In the evening when the fire is being taken up the sacrificer addresses it with bhūr bhuvaḥ svaḥ uddhriyamāṇam uddhara… ahnā yadenaḥ…; in the morning with bhūrbhuvaḥ svaḥ… rātryā yadenaḥ…
भूर्भुवः सुवरुद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वान्यच्च विद्वांश्चकार । अन्हा यदेनः कृतमस्ति पापं सर्वस्मान्मोद्धृतो मुञ्च तस्मादित्युद्ध्रियमाणमभिमन्त्रयते यजमानः सायम् । रात्र्या यदेनः कृतमस्ति पापं सर्वस्मान्मोद्धृतो मुञ्च तस्मादिति प्रातः ७
08 अग्निपतयेऽग्नये मे विद्ध्यग्निपतयेऽग्नये …{Loading}…
“अग्निपतये ऽग्नये मे विद्ध्यग्निपतयेऽग्नये मे मृड । अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य जित्यै । तयानन्तं काममहं जयानि, प्रजापतिर्यं प्रथमो जिगाय+++(=अजयत्?)+++ +अग्निम् अग्नौ स्वाहा” ८
थिते
- With agnipataye’ gnaye me viddhi…1,
अग्निपतयेऽग्नये मे विद्ध्यग्निपतयेऽग्नये मे मृड । अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य जित्यै । तयानन्तं काममहं जयानि प्रजापतिर्यं प्रथमो जिगायाग्निमग्नौ स्वाहा ८
इति प्रथमा कण्डिका