२९

01 आग्न्याधेयिकीः पौनराधेयिकीश्च पुनर्निष्कृतो ...{Loading}...

आग्न्याधेयिकीः पौनराधेयिकीश्च पुनर्निष्कृतो रथ इत्येताः शतमानं च हिरण्यम् १

02 तस्माद्रजतं हिरण्यमित्युक्तम् ...{Loading}...

तस्माद्रजतं हिरण्यमित्युक्तम् २

03 पुनरभिहितो रथः पुनरुत्स्यूतं ...{Loading}...

पुनरभिहितो रथः पुनरुत्स्यूतं स्यामूलं पुनःकामस्याप्त्या इत्येकेषाम् ३

04 यदीतराणि न विद्येरन्नप्यनद्धाहमेव ...{Loading}...

यदीतराणि न विद्येरन्नप्यनद्धाहमेव दद्यात् । अनडुहि ह वा एते च कामा अतश्च भूयांस इति पैङ्गायनिब्राह्मणं भवति ४

05 देवे अग्नौ देवो ...{Loading}...

देवे अग्नौ देवो अग्निरिति द्वयोरनूयाजयोर्विभक्ती दधाति ५

06 नोत्तमे ...{Loading}...

नोत्तमे ६

07 उच्चैरुत्तमं सम्प्रेष्यति ...{Loading}...

उच्चैरुत्तमं सम्प्रेष्यति ७

08 सिद्धमिष्टिः सन्तिष्ठते ...{Loading}...

सिद्धमिष्टिः सन्तिष्ठते ८

09 आग्निवारुणमेकादशकपालमनुनिर्वपति सर्वेषामनुनिर्वाप्याणां स्थाने ...{Loading}...

आग्निवारुणमेकादशकपालमनुनिर्वपति सर्वेषामनुनिर्वाप्याणां स्थाने द्विदेवत्यानां वा ९

10 सिद्धमिष्टिः सन्तिष्ठते सन्तिष्ठते ...{Loading}...

सिद्धमिष्टिः सन्तिष्ठते । सन्तिष्ठते पुनराधेयम् १०

11 यस्तृतीयमादधीत स एतान्होमाञ्जुहुयाल्लेकः ...{Loading}...

यस्तृतीयमादधीत स एतान्होमाञ्जुहुयाल्लेकः सलेकः सुलेक इति ११

12 यदरण्योः समारूढो नश्येत् ...{Loading}...

यदरण्योः समारूढो नश्येत् १२

13 यस्य वोभावनुगतावभिनिम्रोचेदभ्युदियाद्वा पुनराधेयन् ...{Loading}...

यस्य वोभावनुगतावभिनिम्रोचेदभ्युदियाद्वा पुनराधेयं तस्य प्रायश्चित्तिः १३

14 पुनराधेयमित्याश्मरथ्योऽग्न्याधेयमित्यालेखन आलेखनः ...{Loading}...

पुनराधेयमित्याश्मरथ्योऽग्न्याधेयमित्यालेखन आलेखनः १४

इत्येकोनत्रिंशी कण्डिका इति अष्टमः पटलः इति पञ्चमः प्रश्नः


  1. See V.20.6ff. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. For details see TS 1.5.2.4: a re-made chariot, a re-woven garment an old ox, and gold weighing one hundred mānas. ↩︎ ↩︎