२९

01 आग्न्याधेयिकीः पौनराधेयिकीश्च पुनर्निष्कृतो …{Loading}…

आग्न्याधेयिकीः पौनराधेयिकीश्च पुनर्निष्कृतो रथ इत्येताः शतमानं च हिरण्यम् १

02 तस्माद्रजतं हिरण्यमित्युक्तम् …{Loading}…

तस्माद्रजतं हिरण्यमित्युक्तम् २

03 पुनरभिहितो रथः पुनरुत्स्यूतं …{Loading}…

पुनरभिहितो रथः पुनरुत्स्यूतं स्यामूलं पुनःकामस्याप्त्या इत्येकेषाम् ३

04 यदीतराणि न विद्येरन्नप्यनद्धाहमेव …{Loading}…

यदीतराणि न विद्येरन्नप्यनद्धाहमेव दद्यात् । अनडुहि ह वा एते च कामा अतश्च भूयांस इति पैङ्गायनिब्राह्मणं भवति ४

05 देवे अग्नौ देवो …{Loading}…

देवे अग्नौ देवो अग्निरिति द्वयोरनूयाजयोर्विभक्ती दधाति ५

06 नोत्तमे …{Loading}…

नोत्तमे ६

07 उच्चैरुत्तमं सम्प्रेष्यति …{Loading}…

उच्चैरुत्तमं सम्प्रेष्यति ७

08 सिद्धमिष्टिः सन्तिष्ठते …{Loading}…

सिद्धमिष्टिः सन्तिष्ठते ८

09 आग्निवारुणमेकादशकपालमनुनिर्वपति सर्वेषामनुनिर्वाप्याणां स्थाने …{Loading}…

आग्निवारुणमेकादशकपालमनुनिर्वपति सर्वेषामनुनिर्वाप्याणां स्थाने द्विदेवत्यानां वा ९

10 सिद्धमिष्टिः सन्तिष्ठते सन्तिष्ठते …{Loading}…

सिद्धमिष्टिः सन्तिष्ठते । सन्तिष्ठते पुनराधेयम् १०

11 यस्तृतीयमादधीत स एतान्होमाञ्जुहुयाल्लेकः …{Loading}…

यस्तृतीयमादधीत स एतान्होमाञ्जुहुयाल्लेकः सलेकः सुलेक इति ११

12 यदरण्योः समारूढो नश्येत् …{Loading}…

यदरण्योः समारूढो नश्येत् १२

13 यस्य वोभावनुगतावभिनिम्रोचेदभ्युदियाद्वा पुनराधेयन् …{Loading}…

यस्य वोभावनुगतावभिनिम्रोचेदभ्युदियाद्वा पुनराधेयं तस्य प्रायश्चित्तिः १३

14 पुनराधेयमित्याश्मरथ्योऽग्न्याधेयमित्यालेखन आलेखनः …{Loading}…

पुनराधेयमित्याश्मरथ्योऽग्न्याधेयमित्यालेखन आलेखनः १४

इत्येकोनत्रिंशी कण्डिका इति अष्टमः पटलः इति पञ्चमः प्रश्नः


  1. See V.20.6ff. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. For details see TS 1.5.2.4: a re-made chariot, a re-woven garment an old ox, and gold weighing one hundred mānas. ↩︎ ↩︎