२८

01 आग्नेयम् पञ्चकपालन् निर्वपत्यष्टाकपालं ...{Loading}...

आग्नेयं पञ्चकपालं निर्वपत्यष्टाकपालं वा १

02 यदि पञ्चकपालो गायत्र्यौ ...{Loading}...

यदि पञ्चकपालो गायत्र्यौ संयाज्ये । यद्यष्टाकपालः पङ्क्त्यौ २

03 सर्वमाग्नेयम् भवति ...{Loading}...

सर्वमाग्नेयं भवति ३

04 पञ्चदश सप्तदश वा ...{Loading}...

पञ्चदश सप्तदश वा सामिधेन्यः ४

05 सामिधेनीप्रभृत्युपांशु यजत्योत्तमादनूयाजादुच्चैः स्विष्टकृतम् ...{Loading}...

सामिधेनीप्रभृत्युपांशु यजत्योत्तमादनूयाजादुच्चैः स्विष्टकृतम् ५

06 अग्नाग्नेऽग्नावग्नेऽग्निनाग्नेऽग्निमग्न इति चतुर्षु ...{Loading}...

अग्नाग्नेऽग्नावग्नेऽग्निनाग्नेऽग्निमग्न इति चतुर्षु प्रयाजेसु चतस्रो विभक्तीर्दधाति ६

07 नोत्तमे ...{Loading}...

नोत्तमे ७

08 विभक्तिमुक्त्वा प्रयाजेन वषट्करोति ...{Loading}...

विभक्तिमुक्त्वा प्रयाजेन वषट्करोति ८

09 यङ् कामयेतर्ध्नुयादिति तस्योपरिष्टाद्येयजामहाद्विभक्तिन् ...{Loading}...

यं कामयेतर्ध्नुयादिति तस्योपरिष्टाद्येयजामहाद्विभक्तिं दध्यात्पुरा वा वषट्कारात् ९

10 अग्निं स्तोमेन बोधयेत्याग्नेयस्याज्यभागस्य ...{Loading}...

अग्निं स्तोमेन बोधयेत्याग्नेयस्याज्यभागस्य पुरोऽनुवाक्या भवति । अग्न आयूंषि पवस इति सौम्यस्य १०

11 अग्निर्मूर्धेति वा सौम्यस्य ...{Loading}...

अग्निर्मूर्धेति वा सौम्यस्य कुर्यात् ११

12 प्रजाकामपशुकामस्य प्रजाव्यृद्धपशुव्यृद्धस्य वा ...{Loading}...

प्रजाकामपशुकामस्य प्रजाव्यृद्धपशुव्यृद्धस्य वा १२

13 अग्निन्यक्ताः पत्नीसंयाजानामृचो भवन्ति ...{Loading}...

अग्निन्यक्ताः पत्नीसंयाजानामृचो भवन्ति १३

14 अपि वा यथापूर्वमाज्यभागावेवम् ...{Loading}...

अपि वा यथापूर्वमाज्यभागावेवं पत्नीसंयाजाः १४

15 अग्ने तमद्याश्वमित्यक्षरपङ्क्त्यो याज्यानुवाक्या ...{Loading}...

अग्ने तमद्याश्वमित्यक्षरपङ्क्त्यो याज्यानुवाक्या भवन्ति । द्वे आग्नेयस्य द्वे स्विष्टकृतः १५

16 पुनरूर्जा सह रय्येत्यभितः ...{Loading}...

पुनरूर्जा सह रय्येत्यभितः पुरोडाशमाहुतीर्जुहोति १६

17 पुनरूजति वा पुरस्तात्प्रयाजानां ...{Loading}...

पुनरूजति वा पुरस्तात्प्रयाजानां सह रय्येत्युपरिष्टादनूयाजानाम् १७

18 एतद्वा विपरीतम् ...{Loading}...

एतद्वा विपरीतम् १८

19 उभयीर्दक्षिणा ददाति ...{Loading}...

उभयीर्दक्षिणा ददाति १९

इत्यष्टाविंशी कण्डिका


  1. TS I.5.1.4. prescribes only this. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. MS 1.7.4. allows both. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS I.1.6.6.1. ↩︎ ↩︎ ↩︎

  4. Cf. MS I.7.4.; KS IX. 2; SB II.2.3.22. ↩︎ ↩︎