२८

01 आग्नेयम् पञ्चकपालन् निर्वपत्यष्टाकपालं …{Loading}…

आग्नेयं पञ्चकपालं निर्वपत्यष्टाकपालं वा १

02 यदि पञ्चकपालो गायत्र्यौ …{Loading}…

यदि पञ्चकपालो गायत्र्यौ संयाज्ये । यद्यष्टाकपालः पङ्क्त्यौ २

03 सर्वमाग्नेयम् भवति …{Loading}…

सर्वमाग्नेयं भवति ३

04 पञ्चदश सप्तदश वा …{Loading}…

पञ्चदश सप्तदश वा सामिधेन्यः ४

05 सामिधेनीप्रभृत्युपांशु यजत्योत्तमादनूयाजादुच्चैः स्विष्टकृतम् …{Loading}…

सामिधेनीप्रभृत्युपांशु यजत्योत्तमादनूयाजादुच्चैः स्विष्टकृतम् ५

06 अग्नाग्नेऽग्नावग्नेऽग्निनाग्नेऽग्निमग्न इति चतुर्षु …{Loading}…

अग्नाग्नेऽग्नावग्नेऽग्निनाग्नेऽग्निमग्न इति चतुर्षु प्रयाजेसु चतस्रो विभक्तीर्दधाति ६

07 नोत्तमे …{Loading}…

नोत्तमे ७

08 विभक्तिमुक्त्वा प्रयाजेन वषट्करोति …{Loading}…

विभक्तिमुक्त्वा प्रयाजेन वषट्करोति ८

09 यङ् कामयेतर्ध्नुयादिति तस्योपरिष्टाद्येयजामहाद्विभक्तिन् …{Loading}…

यं कामयेतर्ध्नुयादिति तस्योपरिष्टाद्येयजामहाद्विभक्तिं दध्यात्पुरा वा वषट्कारात् ९

10 अग्निं स्तोमेन बोधयेत्याग्नेयस्याज्यभागस्य …{Loading}…

अग्निं स्तोमेन बोधयेत्याग्नेयस्याज्यभागस्य पुरोऽनुवाक्या भवति । अग्न आयूंषि पवस इति सौम्यस्य १०

11 अग्निर्मूर्धेति वा सौम्यस्य …{Loading}…

अग्निर्मूर्धेति वा सौम्यस्य कुर्यात् ११

12 प्रजाकामपशुकामस्य प्रजाव्यृद्धपशुव्यृद्धस्य वा …{Loading}…

प्रजाकामपशुकामस्य प्रजाव्यृद्धपशुव्यृद्धस्य वा १२

13 अग्निन्यक्ताः पत्नीसंयाजानामृचो भवन्ति …{Loading}…

अग्निन्यक्ताः पत्नीसंयाजानामृचो भवन्ति १३

14 अपि वा यथापूर्वमाज्यभागावेवम् …{Loading}…

अपि वा यथापूर्वमाज्यभागावेवं पत्नीसंयाजाः १४

15 अग्ने तमद्याश्वमित्यक्षरपङ्क्त्यो याज्यानुवाक्या …{Loading}…

अग्ने तमद्याश्वमित्यक्षरपङ्क्त्यो याज्यानुवाक्या भवन्ति । द्वे आग्नेयस्य द्वे स्विष्टकृतः १५

16 पुनरूर्जा सह रय्येत्यभितः …{Loading}…

पुनरूर्जा सह रय्येत्यभितः पुरोडाशमाहुतीर्जुहोति १६

17 पुनरूजति वा पुरस्तात्प्रयाजानां …{Loading}…

पुनरूजति वा पुरस्तात्प्रयाजानां सह रय्येत्युपरिष्टादनूयाजानाम् १७

18 एतद्वा विपरीतम् …{Loading}…

एतद्वा विपरीतम् १८

19 उभयीर्दक्षिणा ददाति …{Loading}…

उभयीर्दक्षिणा ददाति १९

इत्यष्टाविंशी कण्डिका


  1. TS I.5.1.4. prescribes only this. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. MS 1.7.4. allows both. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS I.1.6.6.1. ↩︎ ↩︎ ↩︎

  4. Cf. MS I.7.4.; KS IX. 2; SB II.2.3.22. ↩︎ ↩︎