२७

01 ये ते अग्ने ...{Loading}...

ये ते अग्ने वानस्पत्याः सम्भाराः सम्भृताः सह । तेभिर्गच्छ वनस्पतीन्स्वां योनिं यथायथम् । अगन्नग्निर्यथालोकमसदत्सदने स्वे । अवीरहत्यं देवेषूपागां मनसा सहेति पुरस्तात्स्विष्टकृतः सप्ताहुतीर्जुहोति १

02 सिद्धमिष्टिः सन्तिष्ठते ...{Loading}...

सिद्धमिष्टिः सन्तिष्ठते २

03 पौर्णमासीमिष्ट्वा ज्वलतोऽग्नीनुत्सृजति ...{Loading}...

पौर्णमासीमिष्ट्वा ज्वलतोऽग्नीनुत्सृजति ३

04 संवत्सरम् परार्ध्यमुत्सृष्टाग्निर्भवति ...{Loading}...

संवत्सरं परार्ध्यमुत्सृष्टाग्निर्भवति ४

05 रोहिणी पुनर्वसू अनुराधा ...{Loading}...

रोहिणी पुनर्वसू अनुराधा इति नक्षत्राणि ५

06 वर्षासु शरदि वादधीत ...{Loading}...

वर्षासु शरदि वादधीत ६

07 कृताकृताः सम्भारा यजूंषि ...{Loading}...

कृताकृताः सम्भारा यजूंषि च भवन्ति ७

08 अपि वा पञ्च ...{Loading}...

अपि वा पञ्च पार्थिवान्सम्भारानाहरति एवं वानस्पत्यान् ८

09 आयतनेषु पुराणान्दर्भान्संस्तीर्य भूमिर्भूम्नेति ...{Loading}...

आयतनेषु पुराणान्दर्भान्संस्तीर्य भूमिर्भूम्नेति सर्पराज्ञीभिर्गार्हपत्यमादधाति ९

10 मध्यन्दिन इतरान् ...{Loading}...

मध्यन्दिन इतरान् १०

11 उपोलवैर्दर्भैः परुत्कैः संवत्सरप्रवातैराहवनीयञ् ...{Loading}...

उपोलवैर्दर्भैः परुत्कैः संवत्सरप्रवातैराहवनीयं ज्वलन्तमुद्धरति ११

12 यत्त्वा क्रुद्धः परोवपेति ...{Loading}...

यत्त्वा क्रुद्धः परोवपेति दक्षिणाग्निम् । यत्ते मन्युपरोप्तस्येतीतरान् १२

13 मनो ज्योतिर्जुषतामिति बृहस्पतिवत्यर्चोपतिष्ठते ...{Loading}...

मनो ज्योतिर्जुषतामिति बृहस्पतिवत्यर्चोपतिष्ठते १३

14 सप्त ते अग्ने ...{Loading}...

सप्त ते अग्ने समिधः सप्त जिह्वा इत्यग्निहोत्रं जुहोति १४

इति सप्तविंशी कण्डिका


  1. After the offering is over, one fuel-stick is put on the fire. Then the fires are let be extinguished and then given up. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. For these see V. 1.7-2.1. ↩︎ ↩︎

  3. For this Sūtra cf. in general TS I.5.2.4, MS I.7.2., KS VII.15. ↩︎ ↩︎