२७

01 ये ते अग्ने …{Loading}…

ये ते अग्ने वानस्पत्याः सम्भाराः सम्भृताः सह । तेभिर्गच्छ वनस्पतीन्स्वां योनिं यथायथम् । अगन्नग्निर्यथालोकमसदत्सदने स्वे । अवीरहत्यं देवेषूपागां मनसा सहेति पुरस्तात्स्विष्टकृतः सप्ताहुतीर्जुहोति १

02 सिद्धमिष्टिः सन्तिष्ठते …{Loading}…

सिद्धमिष्टिः सन्तिष्ठते २

03 पौर्णमासीमिष्ट्वा ज्वलतोऽग्नीनुत्सृजति …{Loading}…

पौर्णमासीमिष्ट्वा ज्वलतोऽग्नीनुत्सृजति ३

04 संवत्सरम् परार्ध्यमुत्सृष्टाग्निर्भवति …{Loading}…

संवत्सरं परार्ध्यमुत्सृष्टाग्निर्भवति ४

05 रोहिणी पुनर्वसू अनुराधा …{Loading}…

रोहिणी पुनर्वसू अनुराधा इति नक्षत्राणि ५

06 वर्षासु शरदि वादधीत …{Loading}…

वर्षासु शरदि वादधीत ६

07 कृताकृताः सम्भारा यजूंषि …{Loading}…

कृताकृताः सम्भारा यजूंषि च भवन्ति ७

08 अपि वा पञ्च …{Loading}…

अपि वा पञ्च पार्थिवान्सम्भारानाहरति एवं वानस्पत्यान् ८

09 आयतनेषु पुराणान्दर्भान्संस्तीर्य भूमिर्भूम्नेति …{Loading}…

आयतनेषु पुराणान्दर्भान्संस्तीर्य भूमिर्भूम्नेति सर्पराज्ञीभिर्गार्हपत्यमादधाति ९

10 मध्यन्दिन इतरान् …{Loading}…

मध्यन्दिन इतरान् १०

11 उपोलवैर्दर्भैः परुत्कैः संवत्सरप्रवातैराहवनीयञ् …{Loading}…

उपोलवैर्दर्भैः परुत्कैः संवत्सरप्रवातैराहवनीयं ज्वलन्तमुद्धरति ११

12 यत्त्वा क्रुद्धः परोवपेति …{Loading}…

यत्त्वा क्रुद्धः परोवपेति दक्षिणाग्निम् । यत्ते मन्युपरोप्तस्येतीतरान् १२

13 मनो ज्योतिर्जुषतामिति बृहस्पतिवत्यर्चोपतिष्ठते …{Loading}…

मनो ज्योतिर्जुषतामिति बृहस्पतिवत्यर्चोपतिष्ठते १३

14 सप्त ते अग्ने …{Loading}…

सप्त ते अग्ने समिधः सप्त जिह्वा इत्यग्निहोत्रं जुहोति १४

इति सप्तविंशी कण्डिका


  1. After the offering is over, one fuel-stick is put on the fire. Then the fires are let be extinguished and then given up. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. For these see V. 1.7-2.1. ↩︎ ↩︎

  3. For this Sūtra cf. in general TS I.5.2.4, MS I.7.2., KS VII.15. ↩︎ ↩︎