२६

01 पुनराधेयं व्याख्यास्यामः ...{Loading}...

पुनराधेयं व्याख्यास्यामः १

02 तस्याग्न्याधेयवत्कल्पः ...{Loading}...

तस्याग्न्याधेयवत्कल्पः २

03 अग्नीनाधायैतस्मिन्संवत्सरे यो नर्ध्नुयात्स ...{Loading}...

अग्नीनाधायैतस्मिन्संवत्सरे यो नर्ध्नुयात्स पुनरादधीत प्रजाकामः पशुकामः पुष्टिकामो ज्यान्यां पुत्रमर्त्यायां स्वेष्ठारुध्यमानेषु यदा वाङ्गेन विधुरतां नीयात् ३

04 आग्नेयमष्टाकपालन् निर्वपेद्वैश्वानरन् द्वादशकपालं ...{Loading}...

आग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादशकपालं वारुणं दशकपालमग्नयेऽप्सुमते ऽष्टाकपालं मैत्रं चरुमग्निमुद्वासयिष्यन् ४

05 या ते अग्न ...{Loading}...

या ते अग्न उत्सीदतः पवमाना प्रिया तनूः । तया सह पृथिवीमाविश रथन्तरेण साम्ना गायत्रेण च छन्दसा । या ते अग्ने पावका या मनसा प्रेयसी प्रिया तनूः । तया सहान्तरिक्षमाविश वामदेव्येन साम्ना त्रैष्टुभेन च छन्दसा । ततो न ऊर्जमा कृधि गृहमेधं च वर्धय । या ते अग्ने सूर्ये शुचिः प्रिया तनूः शुक्रेऽध्यधि सम्भृता । तया सह दिवमाविश बृहता साम्ना जागतेन च छन्दसा ततो नो वृष्ट्यावत । यास्ते अग्ने कामदुघा विभक्तीरनुसम्भृताः । ताभिर्नः कामान्धुक्ष्वेह प्रजां पुष्टिमथो धनम् । यास्ते अग्ने सम्भृतीरिन्द्रः सूकर आभरत् । तासु शोचिषु सीदेह भस्म वैश्वानरस्य यत् ५

इति षड्विंशी कण्डिका


  1. Cp. TS I.5.1.4, MS I.7.2. KS VIII.15. ↩︎ ↩︎