२५

01 श्वोभूते पौर्णमासेन यजते …{Loading}…

श्वोभूते पौर्णमासेन यजते १

02 अनन्तरमाधानादाहिताग्निव्रतानि …{Loading}…

अनन्तरमाधानादाहिताग्निव्रतानि २

03 नानृतं वदेत् …{Loading}…

नानृतं वदेत् ३

04 नास्य ब्राह्मणोऽनाश्वान्गृहे वसेत् …{Loading}…

नास्य ब्राह्मणोऽनाश्वान्गृहे वसेत् ४

05 सूर्योढमतिथिं वसत्यै नापरुन्धीत …{Loading}…

सूर्योढमतिथिं वसत्यै नापरुन्धीत ५

06 नर्बीसपक्वस्याश्नीयात् …{Loading}…

नर्बीसपक्वस्याश्नीयात् ६

07 क्लिन्नन् दारु नादध्यात् …{Loading}…

क्लिन्नं दारु नादध्यात् ७

08 अन्तर्नाव्यपान् नाश्नीयात् …{Loading}…

अन्तर्नाव्यपां नाश्नीयात् ८

09 स्वकृत इरिणे नावस्येत् …{Loading}…

स्वकृत इरिणे नावस्येत् ९

10 पुण्यः स्यात् …{Loading}…

पुण्यः स्यात् १०

11 हिङ्कृत्य वाग्यतः स्त्रियमुपेयात् …{Loading}…

हिङ्कृत्य वाग्यतः स्त्रियमुपेयात् ११

12 व्याहरेद्वा …{Loading}…

व्याहरेद्वा १२

13 न सायमाहुतावहुतायामश्नीयात् …{Loading}…

न सायमाहुतावहुतायामश्नीयात् १३

14 एवम् प्रातः …{Loading}…

एवं प्रातः १४

15 आहिताग्नेर्गृहे न सायमहुते …{Loading}…

आहिताग्नेर्गृहे न सायमहुते भोक्तव्यं तथा प्रातरित्यन्येषां व्रतम् १५

16 नक्तन् नान्यदन्नाद्दद्यात् …{Loading}…

नक्तं नान्यदन्नाद्दद्यात् १६

17 दद्यादित्येके …{Loading}…

दद्यादित्येके १७

18 अन्नन् तु ददन्नदयीत …{Loading}…

अन्नं तु ददन्नदयीत १८

19 नैतस्मिन्संवत्सरे पशुनानिष्ट्वा मांसम् …{Loading}…

नैतस्मिन्संवत्सरे पशुनानिष्ट्वा मांसं भक्षयेत् १९

20 मनसाग्निभ्यः प्रहिणोमि भक्षम् …{Loading}…

मनसाग्निभ्यः प्रहिणोमि भक्षं मम वाचा तं सह भक्षयन्तु । अप्रमाद्यन्नप्रमत्तश्चरामि शिवेन मनसा सह भक्षयतेति यद्यादिष्टो भक्षयेदेतं तन्त्रमुक्त्वा भक्षयेत् २०

इति पञ्चविंशी कण्डिका इति सप्तमः पटलः


  1. For Sūtras 3 and 4 cf. TB I.1.4.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. MS I.8.7. ↩︎