२४

01 चित्तञ् च चित्तिश्चेति …{Loading}…

चित्तं च चित्तिश्चेति पुरस्तात्स्विष्टकृतो जयाञ्जुहोति १

02 चित्ताय स्वाहा चित्त्यै …{Loading}…

चित्ताय स्वाहा चित्त्यै स्वाहेत्येके समामनन्ति २

03 प्रजापतिर्जयानिति त्रयोदशीम् …{Loading}…

प्रजापतिर्जयानिति त्रयोदशीम् ३

04 अग्ने बलद सह …{Loading}…

अग्ने बलद सह ओजः क्रममाणाय मे दाः । अभिशस्तिकृतेऽनभिशस्तेन्यायास्यै जनतायै श्रैष्ठ्यायेति चतुर्दशीं यः कामयेत चित्रं जनतायां स्यामिति । चित्रं भवति शबलं त्वस्य मुखे जायते ४

05 मिथुनौ गावौ दक्षिणा …{Loading}…

मिथुनौ गावौ दक्षिणा ५

06 सिद्धमिष्टिः सन्तिष्ठते …{Loading}…

सिद्धमिष्टिः सन्तिष्ठते ६

07 दर्शपूर्णमासावारप्स्यमानश्चतुर्होतारम् मनसानुद्रुत्याहवनीये सग्रहं …{Loading}…

दर्शपूर्णमासावारप्स्यमानश्चतुर्होतारं मनसानुद्रुत्याहवनीये सग्रहं हुत्वाथ दर्शपूर्णमासावारभते ७

08 व्याहृतीभिर्हवींष्यासादयेत्संवत्सरे पर्यागत एताभिरेवासादयेत् …{Loading}…

व्याहृतीभिर्हवींष्यासादयेत्संवत्सरे पर्यागत एताभिरेवासादयेत् ८

09 अमावास्यायामादधानस्यैतत् पौर्णमास्यान् तु …{Loading}…

अमावास्यायामादधानस्यैतत् । पौर्णमास्यां तु पूर्वस्मिन्पर्वणि सेष्टि सान्वारम्भणीयमाधानमपवृज्य ९

इति चतुर्विंशी कण्डिका


  1. TS III.4.4.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Thus immediately after the main-offering. For this Sūtra cf. MS I.4.14. ↩︎ ↩︎

  3. Cp. V.22.10. ↩︎ ↩︎