२३

01 याम् प्रथमामग्निहोत्राय दोग्धि ...{Loading}...

यां प्रथमामग्निहोत्राय दोग्धि तां दक्षिणां ददाति

02 अथैकेषाम् ...{Loading}...

अथैकेषाम् । अग्नीनाधाय हस्ताववनिज्य संवत्सरमग्निहोत्रं हुत्वाथ दर्शपूर्णमासावारभते ताभ्यां संवत्सरमिष्ट्वा सोमेन पशुना वा यजते तत ऊर्ध्वमन्यानि कर्माणि कुरुते २

03 त्रयोदशरात्रमहतवासा यजमानः स्वयमग्निहोत्रञ् ...{Loading}...

त्रयोदशरात्रमहतवासा यजमानः स्वयमग्निहोत्रं जुहुयादप्रवसन्नत्रैव सोमेन पशुना वेष्ट्वाग्नीनुत्सृजति यथा सुयवसान्कृत्वा प्राज्यात्तादृक्तदिति शाट्यायनिब्राह्मणं भवति ३

04 पूर्णा पश्चाद्यत्ते देवा ...{Loading}...

पूर्णा पश्चाद्यत्ते देवा अदधुरिति सारस्वतौ होमौ हुत्वान्वारम्भणीयामिष्टिं निर्वपति ४

05 आग्नावैष्णवमेकादशकपालं सरस्वत्यै चरुं ...{Loading}...

आग्नावैष्णवमेकादशकपालं सरस्वत्यै चरुं सरस्वते द्वादशकपालम् ५

06 अग्नये भगिनेऽष्टाकपालं यः ...{Loading}...

अग्नये भगिनेऽष्टाकपालं यः कामयेत भग्यन्नादः स्यामिति ६

07 नित्यवदेके समामनन्ति ...{Loading}...

नित्यवदेके समामनन्ति ७

08 नानातन्त्रमेके ...{Loading}...

नानातन्त्रमेके ८

09 त्वद्विश्वा सुभग सौभगान्यग्ने ...{Loading}...

त्वद्विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः । श्रुष्टी रयिर्वाजो वृत्रतूर्ये दिवो वृष्टिरड्यो रीतिरपाम् । त्वं भगो न आ हि रत्नमिषे परिज्मेव क्षयसि दस्मवर्चाः । अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेरिति याज्यानुवाक्ये ९

इति त्रयोविंशी कण्डिका


  1. cp.JB. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS III.5.1.4. ↩︎