२१

01 पवमानहवींषि सद्यो निर्वपेत् ...{Loading}...

पवमानहवींषि सद्यो निर्वपेत् १

02 द्वादशाहे द्व्यहे त्र्यहे ...{Loading}...

द्वादशाहे द्व्यहे त्र्यहे चतुरहेऽर्धमासे मास्यृतौ संवत्सरे वा २

03 न सोमेनायक्ष्यमाणः पुरा ...{Loading}...

न सोमेनायक्ष्यमाणः पुरा संवत्सरान्निर्वपेत् ३

04 निर्वपेदित्येके ...{Loading}...

निर्वपेदित्येके ४

05 यदि निर्वपेदग्नये पवमानायाग्नये ...{Loading}...

यदि निर्वपेदग्नये पवमानायाग्नये पावकायाग्नये शुचय इति तिस्र आज्याहुतीः सोमदेवताभ्यो वा हुत्वा निर्वपेत् ५

06 समानतन्त्राणि नानातन्त्राणि वाग्नेयेन ...{Loading}...

समानतन्त्राणि नानातन्त्राणि वाग्नेयेन वा समानतन्त्राणि ६

07 यङ् कामयेत पापीयान्स्यादिति ...{Loading}...

यं कामयेत पापीयान्स्यादिति तस्यैकमेकमेतानि हवींषि निर्वपेत् । न वसीयान्न पापीयानिति तस्य साकं सर्वाणि । यं कामयेतोत्तरं वसीयाञ्छेयान्स्यादिति तस्याग्नये पवमानाय निरुप्य पावकशुचिभ्यां समानबर्हिषी निर्वपेत् ७

08 शतमानं हिरण्यन् दक्षिणा ...{Loading}...

शतमानं हिरण्यं दक्षिणा ८

09 पूर्वयोर्हविषोर्द्वे त्रिंशन्माने उत्तरस्मिंश्चत्वारिंशन्मानम् ...{Loading}...

पूर्वयोर्हविषोर्द्वे त्रिंशन्माने उत्तरस्मिंश्चत्वारिंशन्मानम् ९

10 येन हिरण्यम् मिमते ...{Loading}...

येन हिरण्यं मिमते तेन मीत्वा ददाति १०

11 सिद्धमिष्टिः सन्तिष्ठते ...{Loading}...

सिद्धमिष्टिः सन्तिष्ठते ११

इत्येकविंशी कण्डिका इति षष्ठः पटलः


  1. These oblations are to be offered to Agni Pavamāna, Agni Pāvaka and Agni Śuci. Cf. TB I.1.5.10;I.1.6.1-3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. i.e. he should offer all the three oblations in a common procedure. ↩︎

  3. For these details cf. MS I.6.7ff. ↩︎