२०

01 कृतं यजमानो विजिनाति ...{Loading}...

कृतं यजमानो विजिनाति १

02 तया यज्जयन्ति तदन्नं ...{Loading}...

तया यज्जयन्ति तदन्नं संस्कृत्यृ सभासद्भ्य उपहरन्ति २

03 आवसथे भुञ्जते ...{Loading}...

आवसथे भुञ्जते ३

04 कॢप्तिसामनसीभ्यामग्नीन्यजमान उपतिष्ठते कल्पेतान् ...{Loading}...

कॢप्तिसामनसीभ्यामग्नीन्यजमान उपतिष्ठते कल्पेतां द्यावापृथिवी येऽग्नयः समनस इति ४

05 प्रोक्षादि कर्म प्रतिपद्यते ...{Loading}...

प्रोक्षादि कर्म प्रतिपद्यते ५

06 आग्नेयस्य दक्षिणाकाले दक्षिणा ...{Loading}...

आग्नेयस्य दक्षिणाकाले दक्षिणा ददाति ६

07 अजम् पूर्णपात्रमुपबर्हणं सार्वसूत्रमित्यग्नीधे ...{Loading}...

अजं पूर्णपात्रमुपबर्हणं सार्वसूत्रमित्यग्नीधे ७

08 हविनमश्वम् ब्रह्मणेऽध्वर्यवे वा ...{Loading}...

हविनमश्वं ब्रह्मणेऽध्वर्यवे वा ८

09 आहवनीयदेशेऽनद्घाहमध्वर्यवे ...{Loading}...

आहवनीयदेशेऽनद्घाहमध्वर्यवे ९

10 अपरेण गार्हपत्यन् धेनुं ...{Loading}...

अपरेण गार्हपत्यं धेनुं होत्रे १०

11 वासो मिथुनौ गावौ ...{Loading}...

वासो मिथुनौ गावौ नवं च रथं ददाति । तानि साधारणानि सर्वेषाम् ११

12 आ द्वादशभ्यो ददातीत्युक्त्वाह ...{Loading}...

आ द्वादशभ्यो ददातीत्युक्त्वाह काममूर्ध्वं देयमपरिमितस्यावरुद्ध्या इति विज्ञायते १२

13 ऊर्ध्वमादिष्टदक्षिणाभ्यो वदति षड् ...{Loading}...

ऊर्ध्वमादिष्टदक्षिणाभ्यो वदति षड् देया द्वादश देयाश्चतुर्विंशतिर्देया इति १३

14 ता विकल्पअन्ते ...{Loading}...

ता विकल्पअन्ते १४

15 येषाम् पशूनाम् पुष्टिम् ...{Loading}...

येषां पशूनां पुष्टिं भूयसीं कामयेत तेषां वयसाम् १५

16 दित्यौहीन् दद्याद्दित्यवाहञ् च ...{Loading}...

दित्यौहीं दद्याद्दित्यवाहं च मुष्करम् १६

17 वर्धमानान् दक्षिणान् ददाति ...{Loading}...

वर्धमानां दक्षिणां ददाति १७

18 यद्यनाढ्योऽग्नीनादधीत काममेवैकाङ् गान् ...{Loading}...

यद्यनाढ्योऽग्नीनादधीत काममेवैकां गां दद्यात्सा गवां प्रत्याम्नायो भवतीति विज्ञायते १८

19 सिद्धमिष्टिः सन्तिष्ठते ...{Loading}...

सिद्धमिष्टिः सन्तिष्ठते १९

इति विंशो कण्डिका


  1. This signifies victory. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TB I.1.6.10. ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. KS VIII.7; MS I.6.11. ↩︎ ↩︎