२०

01 कृतं यजमानो विजिनाति …{Loading}…

कृतं यजमानो विजिनाति १

02 तया यज्जयन्ति तदन्नं …{Loading}…

तया यज्जयन्ति तदन्नं संस्कृत्यृ सभासद्भ्य उपहरन्ति २

03 आवसथे भुञ्जते …{Loading}…

आवसथे भुञ्जते ३

04 कॢप्तिसामनसीभ्यामग्नीन्यजमान उपतिष्ठते कल्पेतान् …{Loading}…

कॢप्तिसामनसीभ्यामग्नीन्यजमान उपतिष्ठते कल्पेतां द्यावापृथिवी येऽग्नयः समनस इति ४

05 प्रोक्षादि कर्म प्रतिपद्यते …{Loading}…

प्रोक्षादि कर्म प्रतिपद्यते ५

06 आग्नेयस्य दक्षिणाकाले दक्षिणा …{Loading}…

आग्नेयस्य दक्षिणाकाले दक्षिणा ददाति ६

07 अजम् पूर्णपात्रमुपबर्हणं सार्वसूत्रमित्यग्नीधे …{Loading}…

अजं पूर्णपात्रमुपबर्हणं सार्वसूत्रमित्यग्नीधे ७

08 हविनमश्वम् ब्रह्मणेऽध्वर्यवे वा …{Loading}…

हविनमश्वं ब्रह्मणेऽध्वर्यवे वा ८

09 आहवनीयदेशेऽनद्घाहमध्वर्यवे …{Loading}…

आहवनीयदेशेऽनद्घाहमध्वर्यवे ९

10 अपरेण गार्हपत्यन् धेनुं …{Loading}…

अपरेण गार्हपत्यं धेनुं होत्रे १०

11 वासो मिथुनौ गावौ …{Loading}…

वासो मिथुनौ गावौ नवं च रथं ददाति । तानि साधारणानि सर्वेषाम् ११

12 आ द्वादशभ्यो ददातीत्युक्त्वाह …{Loading}…

आ द्वादशभ्यो ददातीत्युक्त्वाह काममूर्ध्वं देयमपरिमितस्यावरुद्ध्या इति विज्ञायते १२

13 ऊर्ध्वमादिष्टदक्षिणाभ्यो वदति षड् …{Loading}…

ऊर्ध्वमादिष्टदक्षिणाभ्यो वदति षड् देया द्वादश देयाश्चतुर्विंशतिर्देया इति १३

14 ता विकल्पअन्ते …{Loading}…

ता विकल्पअन्ते १४

15 येषाम् पशूनाम् पुष्टिम् …{Loading}…

येषां पशूनां पुष्टिं भूयसीं कामयेत तेषां वयसाम् १५

16 दित्यौहीन् दद्याद्दित्यवाहञ् च …{Loading}…

दित्यौहीं दद्याद्दित्यवाहं च मुष्करम् १६

17 वर्धमानान् दक्षिणान् ददाति …{Loading}…

वर्धमानां दक्षिणां ददाति १७

18 यद्यनाढ्योऽग्नीनादधीत काममेवैकाङ् गान् …{Loading}…

यद्यनाढ्योऽग्नीनादधीत काममेवैकां गां दद्यात्सा गवां प्रत्याम्नायो भवतीति विज्ञायते १८

19 सिद्धमिष्टिः सन्तिष्ठते …{Loading}…

सिद्धमिष्टिः सन्तिष्ठते १९

इति विंशो कण्डिका


  1. This signifies victory. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TB I.1.6.10. ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. KS VIII.7; MS I.6.11. ↩︎ ↩︎