१९

01 आग्नेयस्याष्टाकपालस्य तन्त्रम् प्रक्रमयति ...{Loading}...

आग्नेयस्याष्टाकपालस्य तन्त्रं प्रक्रमयति १

02 निरुप्तं हविरुपसन्नमप्रोक्षितम् भवति ...{Loading}...

निरुप्तं हविरुपसन्नमप्रोक्षितं भवति । अथ सभाया मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्याक्षेषु हिरण्यं निधाय समूह्य व्यूह्य प्रथयित्वा निषसाद धृतव्रत इति मध्येऽधिदेवने राजन्यस्य जुहोति २

03 आवसथे परिषदो मध्ये ...{Loading}...

आवसथे परिषदो मध्ये हिरण्यं निधाय मन्त्रवत्या हिरण्ये जुहोति प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् । यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिर इति ३

04 उत नोऽहिर्बुÞयः शृणोत्वज ...{Loading}...

उत नोऽहिर्बुÞयः शृणोत्वज एकपात्पृथिवी समुद्रः । विश्वे देवा ऋतावृधो न्हुवानाः स्तुता मन्त्राः कविशस्ता अवन्तु न इत्युक्त्वा शतमक्षान्यजमानाय प्रयच्छन्नाह व्रीहिभ्यो गां दीव्यताहिंसन्तः परूंषि विशसतेति ४

05 सम्प्रैषवत्कुर्वन्ति ...{Loading}...

सम्प्रैषवत्कुर्वन्ति ५

इत्येकोनविंशी कण्डिका


  1. Thus the activities upto 1.18.5 have been performed. ↩︎ ↩︎ ↩︎ ↩︎

  2. i.e. if the sacrificer is a Kṣatriya. For this cf. MS 1.6.11. ↩︎

  3. TS I.6.16.a. ↩︎ ↩︎